Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०३ अप्रैलमासः (हि.स.)। केन्द्रीय-गृह-सहकारिता-मन्त्री अमित-शाहः छत्रपति-शिवाजी-महाराजानं तस्य पुण्यतिथौ नमनं कृतवान्। सः उक्तवान् यत् तस्य अथकः संघर्षः जीवनगाथा च अनन्तकालं यावत् देशवासिनः मातृभूमिं प्रति समर्पणस्य प्रेरणां दास्यति।
अमित-शाहः शुक्रवासरे ‘एक्स’ इत्यत्र स्वसन्देशे उक्तवान् यत् भारतीय-स्वाभिमानस्य अमर-प्रतीकं राष्ट्र-गौरवस्य रक्षकं च छत्रपति-शिवाजी-महाराजानं स्मृत्वा तस्य चरणयोः वन्दनं करोमि। धर्मस्य संस्कृतेः च रक्षणाय तेन जनाः एकत्रिताः कृताः तथा हिन्दवी-स्वराज्यस्य स्थापना कृता। समुद्रस्य नियन्त्रणस्य महत्त्वं अवगम्य तेन निर्मिता शक्तिशालिनी नौसेना तस्य अद्वितीय-रणनैतिक-कौशलस्य दूरदर्शिनः नेतृत्व-क्षमतायाश्च प्रतिबिम्बत्वेन अस्ति। एकः शासकः कथं एकस्मिन् काले स्वसंस्कृतेः स्वभाषायाः च रक्षणं कर्तुं शक्नोति तथा लोककल्याणस्य आदर्शान् अपि स्थापयितुं शक्नोति, तस्य जीवनम् अस्य आदर्शम् अस्ति।
उल्लेखनीयं यत् छत्रपति-शिवाजी-महाराजा (१६३०–१६८०) मराठा-साम्राज्यस्य संस्थापकः, कुशलः रणनीतिकारः दूरदर्शीशासकः च आसीत्, येन मुगलानां विरुद्धं ‘स्वराज्यस्य’ स्थापना कृता। १९ फरवरीमासे, १६३० तमे वर्षे पुणे-स्थिते शिवनेरी-दुर्गे तस्य जन्म अभवत्। छत्रपति-शिवाजिना गुरिल्ला-युद्ध-तन्त्रस्य प्रयोगेण आदिलशाही-मुगल-सेनाः पराजिताः। अष्टप्रधान-मण्डलस्य माध्यमेन कुशलं प्रशासनं कृत्वा मातृभूमेः रक्षकः ‘हिन्दू-पद-पादशाही’ इत्यस्य प्रणेता च सः इतिहासे अमरः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता