पलामू सांसदः अकरोत् मेदिनीनगरे पिहितानि आकाशवाणी-दूरदर्शन केंद्राणि पुनः शुभारब्धु याचना
पलामूः, 03 अप्रैलमासः (हि.स.)। पलामू-जनपदस्य सांसदः विष्णु दयाल राम (वीडी राम) मेदिनीनगरस्य बैरिया-स्थाने स्थितं दीर्घकालं यावत् निरुद्धं आकाशवाणी-दूरदर्शन-केन्द्रं शीघ्रं पुनः प्रारम्भयितुं आग्रहं कृतवान्। अस्य विषयस्य सम्बन्धे सांसदस्य निजी-सचिवः
वीडी राम की फाइल फोटो


पलामूः, 03 अप्रैलमासः (हि.स.)। पलामू-जनपदस्य सांसदः विष्णु दयाल राम (वीडी राम) मेदिनीनगरस्य बैरिया-स्थाने स्थितं दीर्घकालं यावत् निरुद्धं आकाशवाणी-दूरदर्शन-केन्द्रं शीघ्रं पुनः प्रारम्भयितुं आग्रहं कृतवान्। अस्य विषयस्य सम्बन्धे सांसदस्य निजी-सचिवः अलख-दुबे शुक्रवासरे प्रेस-विज्ञप्तिं प्रकाशितवान्।

प्रेस-विज्ञप्त्यानुसारं सांसदेन एषः विषयः लोकसभायां उत्थापितः, तथा च केन्द्रीय-सूचना-प्रसारण-मन्त्री अश्विनी वैष्णव इत्यस्मै पत्रं लिखित्वा, व्यक्तिगत-भेटां कृत्वा अपि केन्द्रस्य क्रियाः पुनः आरभ्यन्ताम् इति निवेदनं कृतम्।

सांसदेन उक्तं यत् कोविड-महामार्याः समये आकाशवाणी-दूरदर्शन-केन्द्रे अभिलेखन-कार्यक्रमाः अन्ये च कार्यक्रमाः अस्थायी-रूपेण स्थगिताः आसन्, किन्तु महामारी-समाप्तेः अनन्तरम् अपि अद्यावधि तेषां पुनः आरम्भः न कृतः। तेन उक्तं यत् केन्द्रे आवश्यक-आधारभूत-सुविधाः उपलब्धाः सन्ति, संचालनस्य विषये काचित् महती बाधा नास्ति।

तेन चिन्ता व्यक्ता यत् केन्द्रस्य निरुद्धत्वेन स्थानीय-कलाकाराणां सांस्कृतिक-प्रतिभानां च प्रदर्शनाय अवसरः न लभ्यते, येन क्षेत्रस्य कला-संस्कृतिः प्रभाविताऽस्ति।

अतः सांसदः विष्णु-दयाल-राम आग्रहं कृतवान् यत् आकाशवाणी-दूरदर्शन-केन्द्रस्य क्रियाः शीघ्रं पुनः स्थापिताः स्युः, येन स्थानीय-प्रतिभाभ्यः अवसरः लभेत तथा जन-प्रसारण-सेवाः सुदृढाः भवेयुः। -------------

हिन्दुस्थान समाचार