Enter your Email Address to subscribe to our newsletters


पूर्वी सिंहभूमः, 03 अप्रैलमासः (हि.स.)। झारखण्ड-उच्चन्यायालयस्य मुख्यन्यायाधीशः न्यायमूर्ति महेशशरदचन्द्रसोनकस्य जमशेदपुर-नगरस्य आगमने जिलाप्रशासनस्य पक्षेण भव्यस्वागतं कृतम्। जिलाधिकारी कर्णसत्यार्थी तं पुष्पगुच्छं पुस्तकं च समर्प्य अभिनन्दितवान्।
अस्मिन् अवसरे मुख्यन्यायाधीशाय “गार्ड् ऑफ् ऑनर्” इति सम्मानः अपि प्रदत्तः। स्वागतसमारोहे स्थानीयाः लोककलाकाराः पारम्परिकशैल्यां प्रस्तुतीः दत्त्वा कार्यक्रमं सांस्कृतिकरसेन परिपूर्णं कृतवन्तः।
कार्यक्रमस्य दौरान न्यायमूर्ति सोनकः कलाकारैः सह आत्मीयसंवादं कृतवान् तथा झारखण्डस्य समृद्धलोकसंस्कृतेः प्रति स्वीयां रुचिं व्यक्तवान्। सः स्वयम् पारम्परिकवाद्ययन्त्रे नगाड़ा तथा मांदर वादयित्वा कलाकाराणां उत्साहं वर्धितवान्, येन तत्र उपस्थितेषु जनसमूहे विशेषः उत्साहः दृश्यते स्म।
अस्मिन् अवसरे जिला-सत्रन्यायाधीशः अरविन्दकुमारपाण्डेयः, वरिष्ठपुलिसअधीक्षकः पीयूषपाण्डेयः, नगरपुलिसअधीक्षकः कुमारशिवशीषः, ग्रामीणपुलिसअधीक्षकः ऋषभगर्गः इत्यादयः अपि, अन्ये च बहवः जिलाप्रशासन-पुलिसविभागयोः अधिकारिजनाः उपस्थिताः आसन्।---------------
हिन्दुस्थान समाचार