Enter your Email Address to subscribe to our newsletters

दंतेवाड़ा, 03 अप्रैलमासः (हि.स.)।
छत्तीसगढ़-राज्यस्य दंतेवाड़ा-जिलायाः जिला-पंचायत-दंतेवाड़ा इत्यस्य सभागार-कक्षे अद्य शुक्रवासरे “लखपति-दीदी-संवाद-कार्यक्रमः” आयोजितः। अयं कार्यक्रमः मुख्य-कार्यपालन-अधिकारी जयन्त-नाहटा इत्यस्य मार्गदर्शने सम्पन्नः, यस्मिन् जिल्लस्य सर्वेभ्यः विकास-खण्डेभ्यः प्रायः 150 अधिकाः लखपति-दीद्यः उत्साहपूर्वकं भागं गृहीतवन्त्यः।
कार्यक्रमस्य अवसरे लखपति-दीद्यः स्वस्व-आजीविका-कार्याणां विषये सूचनां दत्त्वा स्वानुभवान् अपि साझीकृतवन्त्यः। ताभिः विविध-गतिविधीनां माध्यमेन आत्मनिर्भरत्वं प्राप्तुं स्वस्य प्रेरणादायकाः कथाः प्रस्तुताः, येन अन्यासां स्त्रीणां कृते अपि नूतना दिशा प्राप्ता।
अस्मिन् अवसरे जिला-पंचायत-सीईओ नाहटा महोदयः सर्वासां दीदीनां गतिविधीनां गंभीरतया श्रवणं कृत्वा तासां आजीविका-कार्याणि अधिकं सशक्तीकर्तुं जिला-प्रशासनस्य पक्षतः सर्वथा सहयोगस्य आश्वासनं दत्तवान्। तेन सम्बद्ध-अधिकारिणः निर्देशिताः यत् दीदीनां मागणाः सूचीबद्धाः कृत्वा शीघ्रं आवश्यक-कार्यवाही सुनिश्चिता क्रियताम्।
अस्यां प्रक्रियायां लखपति-दीदीनां सम्मानः अपि कृतः। कार्यक्रमे जिला-कार्यक्रम-प्रबन्धकः नितेश-कुमार-देवांगन, उमेश-पाल, बालनरेश-राव सहिताः सर्वे विकास-खण्डानां परियोजना-प्रबन्धकाः, क्षेत्रीय-समन्वयकाः तथा पीआरपी सदस्याः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार