विक्रमोत्सवस्य-2026 अंतर्गते अद्य वाराणस्यां सम्राट विक्रमादित्य महानाट्यस्य मंचनम्
- त्रयो भव्याः मंचाः, 18 घोड़े, 2 रथ, 4 ऊँट, 1 पालकी और हाथी के जीवंत दृश्यों से होगा साकार भोपालम्, 03 अप्रैलमासः (हि.स.)। मध्यप्रदेशे प्रचल्यमानस्य विक्रमोत्सव–२०२६ अन्तर्गत उज्जयिन्याः सम्राट् विक्रमादित्यस्य सुशासनं न्यायप्रियता च जनसामान्यप
वाराणसी में सम्राट विक्रमादित्य महानाट्य मंचन का आमंत्रण पत्र


- त्रयो भव्याः मंचाः, 18 घोड़े, 2 रथ, 4 ऊँट, 1 पालकी और हाथी के जीवंत दृश्यों से होगा साकार

भोपालम्, 03 अप्रैलमासः (हि.स.)।

मध्यप्रदेशे प्रचल्यमानस्य विक्रमोत्सव–२०२६ अन्तर्गत उज्जयिन्याः सम्राट् विक्रमादित्यस्य सुशासनं न्यायप्रियता च जनसामान्यपर्यन्तं प्रापयितुं अद्य शुक्रवासरात् उत्तरप्रदेशस्य वाराणसी-नगरे “सम्राट् विक्रमादित्य” इति महानाट्यस्य भव्यं मंचनं क्रियते।

जनसम्पर्क-अधिकारी अनुराग-उइके उक्तवान् यत् मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादव तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः इत्येतयोः मुख्य-आतिथ्ये आयोजितस्य त्रिदिवसीयस्य अस्य महानाट्यस्य अद्य शुभारम्भः भविष्यति।

तेन उक्तं यत् महाराज-विक्रमादित्य-शोधपीठस्य माध्यमेन वाराणस्यां बी.एल.डब्ल्यू.-क्रीडांगणे आयोजितस्य अस्य महानाट्यस्य परिकल्पना मुख्यमन्त्री डॉ. मोहनयादवेन कृता। पद्मश्री-डॉ. भगवतीलाल-राजपुरोहितेन रचितं, राजेश-कुशवाहेन निर्मितं, संजीव-मालवी-निर्देशितं च एतत् महानाट्यं भारतस्य सांस्कृतिक-चेतनां जागरयितुं समर्थम् अस्ति। अस्मिन् द्विशताधिकाः कलाकाराः, गजाः, अश्वाः, रथाः, पालक्यः, युद्धदृश्यानि, प्रकाश-प्रदर्शनम्, आतिशबाजी, नृत्यं, तथा बाबा-महाकालस्य भस्मारत्याः दिव्यानि दर्शनानि समाविष्टानि सन्ति।

अस्मिन् महानाट्ये सम्राट् विक्रमादित्यस्य जन्मतः राज्याभिषेकपर्यन्तं कथा, विक्रम–बेताल-कथा, सनातन-धर्मस्य उत्थानस्य महाकाव्यात्मक-वृत्तान्तः च सजीवम् उपस्थाप्यते।

भव्य-मञ्चैः, गज-अश्व-पालकीभिः सह सजीव-प्रदर्शनम्— जनसम्पर्क-अधिकारी उक्तवान् यत् अस्य महानाट्यस्य विराट् सजीव-रूपाय त्रयः भव्य-मञ्चाः निर्मिताः। एतेषु मञ्चेषु सिंहासन-बत्तीसी, बेताल-पच्चीसी, भविष्य-पुराणस्य प्रसङ्गैः सम्राट् विक्रमादित्यस्य अद्वितीयं व्यक्तित्वं, सुशासनं, न्यायप्रियता च प्रभावेन प्रदर्श्यते। तस्य सभायाः नवरत्नेषु कालिदासः, वराहमिहिरादयः विद्वांसः अपि सजीवं निरूप्यन्ते।

एकस्मिन् मञ्चे महाकाल-मन्दिरस्य भव्य-रचना तथा अष्ट-फुट-उन्नतस्य शिवलिङ्गस्य उपरि दिव्या भस्मारती प्रमुख-आकर्षणं भविष्यति। महानाट्यस्य सजीवत्ववर्धनार्थं १८ अश्वाः, २ रथौ, ४ ऊष्ट्राः, १ पालकी, १ गजः च उपयुज्यन्ते। आधुनिक-ग्राफिक्स्, चतुर्शताधिक-दीपप्रकाशाः, ८०×३२ एलईडी-पटः तथा द्विवारं भव्य-आतिशबाजी च दर्शकान् अद्वितीयम् अनुभवं दास्यति। वाराणस्यां बी.एल.डब्ल्यू.-मैदाने १०–१५ सहस्र-जनानां उपवेशन-व्यवस्था अपि कृता अस्ति।

“बाबा विश्वनाथाय” विक्रमादित्य-वैदिक-घटी-समर्पणम्— जनसम्पर्क-अधिकारी उक्तवान् यत् मुख्यमन्त्री डॉ. मोहनयादवस्य अभिलाषानुसारं कालगणनायाः केन्द्रे उज्जयिन्यां स्थापितायाः विक्रमादित्य-वैदिक-घट्याः अनन्तरं भारतस्य ज्योतिर्लिङ्गेषु एषा घटिका स्थाप्यते, यस्याः प्रारम्भः वाराणस्यां काशी विश्वनाथे समर्पणेन भविष्यति।

भारतीय-स्वाभिमानस्य पुनर्स्थापनार्थं भारतीय-कालगणनायाः आधारेण निर्मिता एषा विश्वस्य प्रथमा विक्रमादित्य-वैदिक-घटी उज्जयिन्यां स्थापिताऽभवत्। अस्याः लोकार्पणं नरेंद्र मोदिना २०२४ तमे वर्षे कृतम्।

एषा घटिका वैदिक-कालगणनायाः समस्त-घटकान् समन्वित्य निर्मिता अस्ति। सा सूर्योदयात् प्रवर्तते, यत्र यः सूर्योदय-कालः, तत्र तदनुसारं कालगणना भवति। एषा घटिका वैदिक-समयः, स्थानम्, भारतीय-मानक-समयः, पंचाङ्गम्, विक्रम-सम्वत्-मासाः, ग्रह-स्थितिः, भद्रा-स्थितिः, चन्द्र-स्थितिः इत्यादीनि सूचयति।

---------------

हिन्दुस्थान समाचार