गुड फ्राइडेऽवसरे मुख्यमंत्री ममता बनर्जी अददात् शुभकामनाः
कोलकाता, 03 अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्यस्य मुख्यमन्त्री ममताबनर्जी शुक्रवासरे सामाजिक-माध्यमे “एक्स” इत्यस्मिन् गुड-फ्राइडे-अवसरे देशवासिभ्यः, विशेषतः ईसाई-समुदायस्य कृते शुभाशंसाः प्रेषितवती। स्वसन्देशे सा उक्तवती— “गुड-फ्राइडे प्रायश्च
ममता बनर्जी


कोलकाता, 03 अप्रैलमासः (हि.स.)।

पश्चिमबङ्ग-राज्यस्य मुख्यमन्त्री ममताबनर्जी शुक्रवासरे सामाजिक-माध्यमे “एक्स” इत्यस्मिन् गुड-फ्राइडे-अवसरे देशवासिभ्यः, विशेषतः ईसाई-समुदायस्य कृते शुभाशंसाः प्रेषितवती।

स्वसन्देशे सा उक्तवती— “गुड-फ्राइडे प्रायश्चित्त-प्रार्थना-त्यागानां दिवसः अस्ति। अहं मम सर्वेभ्यः ईसाई-भ्रातृभ्यः भगिनिभ्यश्च शान्तिमयं आशीर्वादपूर्णं दिवसं शुभेच्छामि।”

मुख्यमन्त्रिण्याः अयं संदेशः शान्तेः, श्रद्धायाः, त्यागस्य च मूल्यानि प्रदर्शयति, यस्मिन् सा समाजे सौहार्दस्य एकतायाः च कामनां कृतवती।

---------------

हिन्दुस्थान समाचार