Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०३ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्री ममता-बनर्जी शुक्रवासरे ‘एक्स’ इत्यत्र गुड-फ्राइडे-अवसरे देशवासिभ्यः विशेषतः ईसाई-समुदायाय शुभकामनाः अयच्छत्।
स्वसन्देशे सा उक्तवती— “गुड-फ्राइडे प्रायश्चित्तस्य प्रार्थनायाः त्यागस्य च दिवसः अस्ति। अहं सर्वेभ्यः ईसाई-भ्रातृभ्यः भगिनीभ्यश्च शान्तिपूर्णस्य आशीर्वाद-पूर्णस्य दिवसस्य शुभकामनाः ददामि।” इति। मुख्यमन्त्र्याः अयं सन्देशः शान्तेः आस्थायाः त्यागस्य च मूल्यानि दर्शयति, यस्मिन् सा समाजाय सद्भावस्य एकतायाश्च कामनां कृतवती।
हिन्दुस्थान-समाचारः / धनञ्जय-पाण्डेयः / सन्तोष-मधुपः
हिन्दुस्थान समाचार / अंशु गुप्ता