Enter your Email Address to subscribe to our newsletters

उज्जैननगरम्, ०३ अप्रैलमासः (हि.स.)। मध्यप्रदेशे उज्जैन-नगरस्य पावन-भूमौ केन्द्रीय-शिक्षा-सर्वकारः धर्मेन्द्र-प्रधानः शुक्रवासरे प्रातःकाले विश्वप्रसिद्धं श्री-महाकालेश्वर-मन्दिरं प्राप्तः। तेन सह तस्य धर्मपत्नी अपि आसीत्। उभौ गर्भगृहे प्रवेश्य महाकालस्य विधिपूर्वकं पूजार्चनं कृतवन्तौ तथा भस्म-आरार्तिक्यामपि सहभागी भूत्वा दिव्य-दर्शनं कुर्वन्तौ राष्ट्र-विश्वयोः शान्त्यै प्रार्थनां कृतवन्तौ।
प्रातःकाले आयोजितायां भस्म-आरार्तिक्यां धर्मेन्द्र-प्रधानः प्रायः होराद्वयं नन्दी-सभागारे उपविष्य पूर्णविधि-पूर्वकं बाबा-महाकालस्य दर्शनं कृतवान्। मन्दिरपरिसरे गूञ्जायमानाः वैदिक-मन्त्राः, मृदङ्गानां घोषः, अलौकिकं च वातावरणं एतं आध्यात्मिक-अनुभवम् अधिकं दिव्यं कृतवन्तः।
आरार्तिक्यान्ते केन्द्रीय-मन्त्री गर्भगृहे प्रवेश्य विधिपूर्वकं पूजार्चनं कृतवान्। तेन भगवतः महाकालस्य अभिषेकं कृत्वा राष्ट्रस्य उन्नतिं, समाजस्य समृद्धिं, मानवतायाः च कल्याणं कामितवान्। पूजायाः अनन्तरं पत्रकारैः सह संवादे तेन उक्तम् यत् भस्म-आरार्तिक्याः अनुभवः आत्मने गहन-स्तरे संतोषं ददाति। एतत् न केवलं धार्मिक-अनुष्ठानम् एव, अपितु आन्तरिक-शान्ति-सामर्थ्यस्य च स्रोतः अस्ति।
मन्त्री अवदत् यत् वर्तमान-वैश्विक-परिस्थितिषु शान्ति-सद्भावस्य आवश्यकता अतीव वर्धिता अस्ति। एतेषु समयेषु भगवतः महाकालस्य समक्षं तेन देशस्य सतत-प्रगतेः, सनातन-संस्कृत्याः विस्तारस्य, संपूर्ण-विश्वस्य च कल्याणाय प्रार्थना कृता। एतेन सह केन्द्रीय-मन्त्री प्रधानः स्वदिव्य-अनुभवम् ‘एक्स’ इत्यत्रापि लिखितवान् यत् —“धर्म-आस्थायाः पुण्यभूमौ उज्जैन-मध्ये श्री-अंगारेश्वर-महादेव-मन्दिरे गौसेवां कर्तुं पावनावसरं प्राप्तवान्। गौसेवा भारतीय-संस्कृतेः करुणा-संवेदना-लोकमङ्गल-भावनायाः च जीवित-स्वरूपा अस्ति। एते प्रेरक-क्षणाः सेवा-समर्पण-पथे दृढतया अग्रे गन्तुं सामर्थ्यं ददति।”
उल्लेखनीयं यत् उज्जैन-नगरस्य श्री-महाकालेश्वर-मन्दिरं शताब्दिभ्यः श्रद्धा-विश्वास-केन्द्रम् अस्ति, यत्र प्रतिदिनं सहस्र-श्रद्धालवः स्व-आस्थया आगच्छन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता