Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०३ अप्रैलमासः (हि.स.)। उपराष्ट्रपतिः सीपी-राधाकृष्णन।, लोकसभा-अध्यक्षः ओम-बिरला, प्रधानमन्त्री नरेन्द्र-मोदी अन्यैः नेतृभिः च शुक्रवासरे देशवासिभ्यः गुड-फ्राइडे-अवसरे शुभकामनाः अयच्छन् तथा यीशु-मसीहस्य सर्वोच्चं बलिदानं स्मृतवन्तः।
सीपी-राधाकृष्णन् ‘एक्स’ इत्यत्र उक्तवान्— “गुड-फ्राइडे-इत्यस्य पवित्रावसरे वयं यीशु-मसीहस्य बलिदानं स्मरामः तथा तस्य प्रेम-करुणा-क्षमा-शाश्वत-सन्देशे मननं कुर्मः। तस्य जीवनं शिक्षाश्च अस्मान् विनम्रता-निःस्वार्थता-धार्मिकता-मार्गे चलितुं प्रेरयन्ति। अयं दिवसः सत्यस्य पालनं कर्तुं दयालुतां प्रसारयितुं समाजे सद्भावं च वर्धयितुं अस्माकं संकल्पं दृढं करोतु।” बिरला उक्तवान् यत् यीशु-मसीहः मानवतायै स्वप्राणानां बलिदानं दत्तवान्। अयं दिवसः अस्मान् दयालुतां स्वीकर्तुं स्वविश्वासं दृढीकर्तुं सर्वत्र सद्भावं प्रसारयितुं प्रेरयतु इति तेन उक्तम्।
प्रधानमन्त्री नरेन्द्र-मोदी उक्तवान् यत् अयं दिवसः सद्भाव-करुणा-क्षमा-मूल्यानि अधिकं दृढानि करोतु। भ्रातृत्वं आशा च अस्माकं मार्गदर्शनं कुर्वन्तु। कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे उक्तवान् यत् करुणा-क्षमा-त्यागाः अस्माकं हृदयानि प्रकाशितुं सत्यस्य विजयस्य स्मरणं च करोतु। केन्द्रीय-कृषि-किसान-कल्याण-मन्त्री शिवराज-सिंह-चौहानः उक्तवान्— आगच्छामः वयं सर्वे तस्य शिक्षाः आत्मसात् कृत्वा विश्व-कल्याणाय प्रेम-सद्भाव-करुणा-भावनां प्रसारयाम।
संसदीय-कार्य-अल्पसंख्यक-कार्य-मन्त्री किरेन-रिजिजू उक्तवान् यत् तस्य जीवनं विनम्रतया सेवां कर्तुं दैनिक-जीवने करुणां स्वीकर्तुं च शाश्वतम् आह्वानम् अस्ति। लोकसभायां विपक्ष-नेता राहुल-गान्धी उक्तवान् यत् अयं गुड-फ्राइडे अस्मान् करुणा-शान्ति-प्रेम-मार्गे नयतु। बन्दरगाह-जहाजरानी-जलमार्ग-मन्त्री सर्बानन्द-सोनोवालः उक्तवान्— अस्मिन् पवित्र-दिवसे वयं सर्वे मिलित्वा शान्तेः सद्भावस्य सुखस्य च कृते प्रार्थनां कुर्मः।
हिन्दुस्थान समाचार / अंशु गुप्ता