प्रधानमंत्री मोदी कथितवान्- शिक्षा जीवनाय श्रेष्ठं निर्मातुं सशक्तं माध्यमम्
नव दिल्ली, 03 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शिक्षायाः महत्त्वं प्रतिपादयन् अवदत् यत् शिक्षा केवलं आजीविकायाः साधनं नास्ति, अपितु जीवनं श्रेष्ठं कर्तुं सशक्तं माध्यमम् अस्ति। तेन उक्तं यत् एषा एव अमूल्या संपत्तिः अस्ति, यस्याः बला
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 03 अप्रैलमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी शिक्षायाः महत्त्वं प्रतिपादयन् अवदत् यत् शिक्षा केवलं आजीविकायाः साधनं नास्ति, अपितु जीवनं श्रेष्ठं कर्तुं सशक्तं माध्यमम् अस्ति। तेन उक्तं यत् एषा एव अमूल्या संपत्तिः अस्ति, यस्याः बलात् राष्ट्रस्य युवाशक्तिः सर्वेषु क्षेत्रेषु नूतनानि कीर्तिमानानि स्थापयति तथा भारतस्य नाम प्रकाशयति।

अद्य प्रधानमन्त्रिणा ‘एक्स’ इति माध्यमे एकं संस्कृतसुभाषितम् अपि साझा कृतम्—

“श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् शुद्धा संस्कारयुक्ता च बुद्धिः मनुष्यस्य कृते कामधेनुसदृशी भवति। एषा बुद्धिः समृद्धिं वर्धयति, विपदः निवारयति, यशः जनयति, तथा जीवनस्य दोषान् मलिनतां च नाशयति। संस्कारैः पवित्रतया च युक्ता बुद्धिः मनुष्यं श्रेष्ठतमं करोति।

प्रधानमन्त्री मोदी एतेन सुभाषितेन संदेशं दत्तवान् यत् शिक्षया संस्कारेण च युक्ता बुद्धिः एव व्यक्तिं समाजं च उन्नतेः मार्गे अग्रे नयति।

---------------

हिन्दुस्थान समाचार