मतदान-दिवसे सर्वेभ्यः कर्मचारिभ्यः सवेतन-अवकाशः प्रदास्यते : निर्वाचन-आयोगः
नवदिल्ली, ०३ अप्रैलमासः (हि.स.)। निर्वाचन-आयोगेन २०२६ वर्षस्य राज्य-विधानसभा-निर्वाचनानां उपनिर्वाचनानां च समये मतदान-दिवसे सर्वेभ्यः कर्मचारिभ्यः सवेतन-अवकाशं दातुं निर्देशः प्रदत्तः। आयोगेन स्पष्टं कृतं यत् एतत् सौविध्यं दैनिक-वेतनभोगिभ्यः आकस्मि
चुनाव आयोग की इमारत का फाइल फोटो


नवदिल्ली, ०३ अप्रैलमासः (हि.स.)। निर्वाचन-आयोगेन २०२६ वर्षस्य राज्य-विधानसभा-निर्वाचनानां उपनिर्वाचनानां च समये मतदान-दिवसे सर्वेभ्यः कर्मचारिभ्यः सवेतन-अवकाशं दातुं निर्देशः प्रदत्तः। आयोगेन स्पष्टं कृतं यत् एतत् सौविध्यं दैनिक-वेतनभोगिभ्यः आकस्मिक-श्रमिकेभ्यः अपि प्रवर्तिष्यते तथा अस्य दिवसस्य कृते कस्यापि प्रकारस्य वेतन-कर्तनं न करिष्यते।

आयोगेन शुक्रवासरे उक्तं यत् असम-केरल-पुडुचेरी-गोवा-कर्नाटक-नागालैण्ड-त्रिपुरा-राज्येषु ९ अप्रैल-मासे मतदानं भविष्यति। तथा तमिलनाडु-गुजरात-महाराष्ट्र-राज्येषु २३ अप्रैल-मासे मतदानं करिष्यते। पश्चिम-बङ्गाले द्वि-चरणेषु मतदानं भविष्यति— प्रथमः चरणः २३ अप्रैल-मासे द्वितीयः चरणः २९ अप्रैल-मासे आयोज्यते।

आयोगेन उक्तं यत् जनप्रतिनिधित्व-अधिनियमः, १९५१ इत्यस्य धारा १३५-बी अन्तर्गतं प्रत्येकं मतदाता, यः कस्यामपि संस्थायां उद्योगे व्यवसाये वा कार्यरतः अस्ति, मतदान-दिवसे सवेतन-अवकाशस्य अधिकारी भविष्यति। यदि कश्चन नियोजकः एतस्य प्रावधानस्य उल्लङ्घनं करोति तर्हि तस्य उपरि दण्डः आरोपितः भवितुम् अर्हति।

आयोगेन एतदपि स्पष्टं कृतं यत् ये मतदातारः स्व-निर्वाचन-क्षेत्रात् बहिः कार्यं कुर्वन्ति, तेभ्यः अपि मतदानाय सवेतन-अवकाशः प्रदास्यते, यथा ते स्वमताधिकारं स्वतन्त्रतया प्रयोगं कर्तुं शक्नुयुः। निर्वाचन-आयोगेन सर्वेषां राज्येषु केन्द्रशासित-प्रदेशेषु च निर्देशः दत्तः यत् एतेषां प्रावधानानां कठोरतया पालनं सुनिश्चितं क्रियन्ताम्, येन सर्वे मतदातारः विना बाधया स्वमतस्य उपयोगं कर्तुं शक्नुयुः।

हिन्दुस्थान समाचार / अंशु गुप्ता