Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 अप्रैलमासः (हि.स.)।
भारतीय जनतादलेन तमिलनाडुराज्यस्य विधानसभानिर्वाचनार्थं सप्तविंशतिः (२७) प्रत्याशिनां नामावलिः शुक्रवासरे प्रकाशिताऽभवत्। केन्द्रीयमन्त्री डॉ. एल्. मुरुगन अवनाशी निर्वाचनक्षेत्रात् प्रत्याशी कृतः। भाजपया उक्तं यत् मायलापुर निर्वाचनक्षेत्रात् तेलङ्गानराज्यस्य पूर्वराज्यपाल तमिलिसै सुन्दरराजन् इत्यस्याः नामाङ्कनं कृतम्।
अस्यां सूच्यां राष्ट्रियमहिलामोर्चाध्यक्षाया वनिथि श्रीनिवासन इत्यस्याः, प्रदेशाध्यक्षस्य नैनार नैनार नागेन्द्रन् इत्यस्य च नामानि अपि समाविष्टानि सन्ति। किन्तु अस्याम् नामावलौ के. अन्नामलै इत्यस्य नाम नास्ति, यतः सः पूर्वमेव निर्वाचनस्पर्धां न कर्तुम् इति उक्तवान्।
तमिलनाडुराज्ये विधानसभायाः चतुश्चत्वारिंशदधिकद्विशतानि (२३४) आसनानि सन्ति। गठबन्धनसहमतेः अनुसारं भाजपायै केवलं सप्तविंशतिः (२७) आसनानि प्राप्तानि। तमिलनाडुराज्ये त्रयोविंशतितमे एप्रिल् दिने (२३ एप्रिल्) मतदानं भविष्यति, चतुर्थे मे दिने (४ मे) मतगणना च भविष्यति।
------------
हिन्दुस्थान समाचार