बीएचयू-दृश्यकला-संकायेन स्वस्य प्रथमेन स्कोपस-अनुक्रमित-प्रकाशनेन महती उपलब्धिः प्राप्ता
वाराणसीनगरम्, ०३ अप्रैलमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) व्यावहारिक-कला-विभागः, दृश्य-कला-संकायः स्वस्य प्रथमेन स्कोपस-अनुक्रमित-प्रकाशनेन महतीम् उपलब्धिं प्राप्तवान्। एषः शोधः इण्टरनेशनल-जर्नल-ऑफ-एनवायरनमेण्ट-एण्ड-सस्टेनेबल-डेवलप
प्रतीक


वाराणसीनगरम्, ०३ अप्रैलमासः (हि.स.)। काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) व्यावहारिक-कला-विभागः, दृश्य-कला-संकायः स्वस्य प्रथमेन स्कोपस-अनुक्रमित-प्रकाशनेन महतीम् उपलब्धिं प्राप्तवान्। एषः शोधः इण्टरनेशनल-जर्नल-ऑफ-एनवायरनमेण्ट-एण्ड-सस्टेनेबल-डेवलपमेण्ट इत्यत्र प्रकाशितः। अयं जलवायु-परिवर्तनस्य युगे डिजिटल-विज्ञापनस्य भूमिकां पुनर्परिभाषयन् महत्त्वपूर्णः शोधः अस्ति। वैश्विक-सतत-विकास-विमर्शेषु महत्त्वपूर्णं विज्ञापनं पर्यावरण-संरक्षणे सक्रियां भूमिकां निर्वहति इति अस्मिन् अध्ययने प्रतिपादितम्।

अस्य अध्ययनस्य लेखकाः प्रो.मनीष-अरोरा, डॉ.पीयूष-कुमार-गुप्तः, प्रो.प्रशान्त-कुमार-श्रीवास्तवः च सन्ति। “जलवायु-परिवर्तनस्य युगे विज्ञापनं पर्यावरण-संरक्षणाय डिजिटल-मीडिया-रणनीतिनां पुनर्परिभाषणम्” इत्यस्य शीर्षकस्य अयं शोधः अनुभवजन्यं, सांख्यिकीयं विषयगतं च साक्ष्यं प्रस्तौति। लेखकानाम् अनुसारं एतत् अध्ययनम् आईसीएसएसआर-इम्प्रेस-राष्ट्रीय-नीति-अनुसन्धान-कार्यक्रमस्य अन्तर्गतं वित्त-पोषितम् अस्ति।

शोधस्य विशेष-उद्देश्यम्

प्रो.मनीष-अरोरायाः अनुसारं एतत् अध्ययनं जलवायु-परिवर्तनस्य परिप्रेक्ष्ये डिजिटल-मीडिया-आधारित-विज्ञापन-रणनीतिनां प्रभावशीलतायाः विश्लेषणं करोति। शोधे अभिसारी-मिश्रित-पद्धतेः उपयोगः कृतः, यस्मिन् मात्रात्मक-सर्वेक्षणं विशेषज्ञ-साक्षात्कार-आधारितं गुणात्मक-विश्लेषणं च समाविष्टं कृत्वा व्यापकाः निष्कर्षाः प्राप्ताः।

शोधस्य निष्कर्षेषु पर्यावरण-केन्द्रित-डिजिटल-अभियानेभ्यः उपभोक्ता-व्यवहारे सकारात्मकं परिवर्तनम्, ब्राण्ड-निष्ठायां जन-विश्वासे च उल्लेखनीया वृद्धि:, विज्ञापन-सामग्री-उपभोक्ता-व्यवहारयोः मध्ये अत्युच्चः सह-सम्बन्धः, शोध-उपकरणानाम् उच्च-विश्वसनीयता, संरचनात्मक-विश्लेषणाय दत्तांशस्य उत्कृष्टा उपयुक्तता, तथा टिकाऊ-विज्ञापनस्य अष्ट प्रमुखाः रणनीतिक-आयामाः इति प्रतिपादिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता