“विक्रमोत्सवे 2026” काश्यां सम्राट विक्रमादित्य महानाट्यस्य भव्य मंचनं सायम् आरभ्य
—त्रयो भव्याः मंचाः विक्रमादित्यस्य वैभवं दर्शयिष्यते, 18 अश्वाः, 2 रथाः, 4 ऊष्ट्राः, 1 पालकी 1 हस्तिना सह जीवितं दृश्यम् वाराणसी,03 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य पवित्रे वाराणसी-नगरे (काश्यां) अद्य शुक्रवासरस्य सायंकालात् त्रिदिवसीयस्य “सम
'सम्राट विक्रमादित्य' महानाट्य में शमिल होने वाली कुर्सी


—त्रयो भव्याः मंचाः विक्रमादित्यस्य वैभवं दर्शयिष्यते, 18 अश्वाः, 2 रथाः, 4 ऊष्ट्राः, 1 पालकी 1 हस्तिना सह जीवितं दृश्यम्

वाराणसी,03 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य पवित्रे वाराणसी-नगरे (काश्यां) अद्य शुक्रवासरस्य सायंकालात् त्रिदिवसीयस्य “सम्राट् विक्रमादित्य” इति महानाट्यस्य मंचनस्य शुभारम्भः भविष्यति। विक्रमोत्सव–२०२६ अन्तर्गत उज्जयिन्याः सम्राट् विक्रमादित्यस्य सुशासनं न्यायप्रियता च महानाट्यरूपेण जनसामान्यपर्यन्तं प्रस्तूयते।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः तथा उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः एतयोः मुख्य-आतिथ्ये अस्य महानाट्यस्य प्रथम-प्रस्तुतिर्भविष्यति। महाराज-विक्रमादित्य-शोधपीठस्य माध्यमेन बीएलडब्ल्यू-मैदाने आयोजितस्य अस्य महानाट्यस्य परिकल्पना डॉ मोहनयादवेन कृता। पद्मश्री-डॉ भगवतीलालराजपुरोहितेन रचितं, राजेशकुशवाहेन निर्मितं, संजीवमालवी-निर्देशितं च एतत् महानाट्यं भारतस्य सांस्कृतिक-चेतनां जागरयति। अस्मिन् द्विशताधिकाः कलाकाराः, गजाः, अश्वाः, रथाः, पालक्यः, युद्ध-दृश्यानि, प्रकाश-प्रदर्शनम्, आतिशबाजी, नृत्यं तथा बाबा-महाकालस्य भस्मारत्याः दिव्य-दर्शनानि समाविष्टानि सन्ति।

अस्मिन् महानाट्ये सम्राट् विक्रमादित्यस्य जन्मतः राज्याभिषेकपर्यन्तं कथा, विक्रम-बेताल-कथा, सनातन-धर्मस्य उत्थानस्य महाकाव्यात्मक-वर्णनं च सजीवं प्रदर्श्यते।

त्रिषु मञ्चेषु भव्य-प्रदर्शनम्— सूचना-विभागस्य अनुसारं महानाट्यस्य विराट् स्वरूपाय त्रयः भव्य-मञ्चाः निर्मिताः—मध्ये ८०×६२ परिमाणस्य मुख्य-मञ्चः तथा उभयोः पार्श्वयोः ४२×४२ परिमाणयोः द्वौ मञ्चौ। एतेषु मञ्चेषु सिंहासन-बत्तीसी, बेताल-पच्चीसी, भविष्य-पुराणस्य प्रसङ्गैः सम्राट् विक्रमादित्यस्य अद्वितीयं व्यक्तित्वं, सुशासनं न्यायप्रियता च प्रभावेन प्रदर्श्यते। तस्य सभायाः नवरत्नेषु कालिदासः, वराहमिहिरः इत्यादयः विद्वांसः अपि सजीवं निरूप्यन्ते।

वाम-मञ्चे महाकाल-मन्दिरस्य भव्य-रचना तथा अष्टफुट-उन्नतस्य शिवलिङ्गस्य उपरि दिव्या भस्मारती मुख्य-आकर्षणं भविष्यति। महानाट्यस्य सजीवत्ववर्धनार्थं अष्टादश-अश्वाः, द्वौ रथौ, चत्वार ऊष्ट्राः, एका पालकी, एकः गजः च उपयुज्यन्ते। आधुनिक-प्रौद्योगिकी-युक्ताः ग्राफिक्स्, चतुर्शताधिक-दीपप्रकाशाः, ८०×३२ एलईडी-पटः तथा द्विवारं भव्य-आतिशबाजी च दर्शकानां विस्मयकरम् अनुभवं दास्यति। दशसहस्रात् पञ्चदशसहस्रपर्यन्तं जनानां उपवेशन-व्यवस्था कृता अस्ति।

काशी-विश्वनाथ-देवालये विक्रमादित्य-वैदिक-घटी-समर्पणम्— कालगणनायाः केन्द्रे उज्जयिन्यां स्थापितायाः विक्रमादित्य-वैदिक-घट्याः अनन्तरं भारतस्य ज्योतिर्लिङ्गेषु श्रीकाशीविश्वनाथ-देवालये अपि तस्याः समर्पणं क्रियते। मुख्यमन्त्री डॉ मोहनयादवस्य अभिलाषानुसारं प्रथमं बाबा-विश्वनाथाय एषा वैदिक-घटी समर्प्यते।

भारतीय-स्वाभिमानस्य पुनर्स्थापनार्थं भारतीय-कालगणनायाः आधारेण निर्मिता एषा विश्वस्य प्रथमा विक्रमादित्य-वैदिक-घटी उज्जयिन्यां स्थापिताऽभवत्, यस्याः लोकार्पणं प्रधानमन्त्री नरेन्द्रमोदी द्वारा २०२४ तमे वर्षे कृतम्।

एषा घटिका वैदिक-कालगणनायाः समस्त-घटकान् समन्वित्य निर्मिता अस्ति। सा सूर्योदयात् प्रवर्तते, अतः यत्र यः सूर्योदय-कालः, तत्र तदनुसारं कालगणना भवति, तथा मानक-समयः अपि तेन सह सम्बद्धः भवति।

अस्याः विशेषताः— एकस्मिन् दिने ३० मुहूर्ताः (प्रत्येकं प्रायः ४८ निमेषाः),९०० कलाः (प्रत्येकं प्रायः ९६ क्षणाः),२७००० काष्ठाः (प्रत्येकं प्रायः ३.२ क्षणाः) भवन्ति।

एषा वैदिक-घटी वैदिक-समयम्, स्थानम्, भारतीय-मानक-समयम्, पंचाङ्गम्, विक्रम-सम्वत्-मासाः, ग्रह-स्थितिः, भद्रा-स्थितिः, चन्द्र-स्थितिः इत्यादीनि सूचयति। तस्याः अनुप्रयोगः अपि अस्ति, यः बहुभाषासु उपलब्धः अस्ति तथा मुहूर्त-अलार्म, स्थान-तापमानादीनि अपि दर्शयति।

---

हिन्दुस्थान समाचार