Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 अप्रैलमासः (हि.स.)।उपराष्ट्रपतिः सी. पी. राधाकृष्णनः शनिवासरे, ४ एप्रिल्-दिने, एकदिवसीयदौरेण बिहारराज्यं गमिष्यति। अस्मिन् अवसरे सः अनेकासु कार्यक्रमेषु सहभागी भविष्यति।
उपराष्ट्रपतिसचिवालयेन शुक्रवासरे प्रकाशिते विज्ञप्तौ उक्तं यत् उपराष्ट्रपतिः राधाकृष्णनः ४ एप्रिल्-दिने बिहारराज्यस्य यात्रां करिष्यति। अस्मिन् समये उपराष्ट्रपतिः महात्मा गान्धी केन्द्रीय विश्वविद्यालयस्य तृतीयदीक्षान्तसमारोहे मुख्यातिथिरूपेण सहभागी भविष्यति।
सः पश्चिमचम्पारणजिले स्थितस्य भीतिहरवा गान्धीआश्रमस्य अपि दर्शनं करिष्यति।
--------------
हिन्दुस्थान समाचार