Enter your Email Address to subscribe to our newsletters

कोलकाता, 03 अप्रैलमासः (हि.स.)। पश्चिमबङ्गालराज्यस्य विधानसभानिर्वाचनार्थं भवानीपुर निर्वाचनक्षेत्रात् भारतीय जनता पार्टी इत्यस्य प्रत्याशी तथा राज्यविधानसभायां विपक्षनेता शुभेन्दु अधिकारी गुरुवासरे स्वनामाङ्कनपत्रं समर्पितवान्। अस्मिन् अवसरॆ केन्द्रीयगृहमन्त्री अमित शाह अपि तेन सह उपस्थितः आसीत्।
नामाङ्कनपत्रे सह दत्ते हलफनामे निर्दिष्टम् अस्ति यत् २०२१ वर्षस्य तुलनया तस्य कुलसम्पत्तौ प्रायः १९.६५ लक्षरूप्यकाणां न्यूनता जाता। यद्यपि तस्य अचलसम्पत्तौ वृद्धिः अभवत्, तथापि चलसम्पत्तौ विशेषः ह्रासः दृष्टः। अस्मिन् वारे तस्य विरुद्धं प्रकरणानां सङ्ख्यायामपि वृद्धिः अभवत्।
हलफनामानुसारं वर्तमानकाले शुभेन्द्वधिकारीणः हस्ते द्वादशसहस्र रूप्यकाणि नगदरूपेण सन्ति। तस्य चलसम्पत्तिः चतुर्विंशतिलक्षसप्तपञ्चाशत्सहस्रषट्शत रूप्यकाणि, अचलसम्पत्तिः एकषष्टिलक्षत्रिंशत्सहस्र रूप्यकाणि च अस्ति। एवं तस्य कुलसम्पत्तिः पञ्चाशीतिलक्षसप्ताशीतिसहस्रषट्शत रूप्यकाणि इति निर्दिष्टा।
यदि २०२१ वर्षस्य हलफनामेन सह तुलना क्रियते, तदा तस्मिन् काले तस्य हस्ते पञ्चसहस्र रूप्यकाणि नगदरूपेण आसन्। तस्य चलसम्पत्तिः एकोनषष्टिलक्षैकत्रिंशत्सहस्रषट्शतसप्तचत्वारिंशत् रूप्यकाणि, अचलसम्पत्तिः षट्चत्वारिंशल्लक्षैकविंशतिसहस्रद्विशतद्वय रूप्यकाणि च आसीत्। एवं गतपञ्चवर्षेषु तस्य चलसम्पत्तौ चतुस्त्रिंशल्लक्षचतुःसप्ततिसहस्रसप्तचत्वारिंशत् रूप्यकाणां न्यूनता जाता, अचलसम्पत्तौ च पञ्चदशलक्षाष्टसहस्राष्टनवतिशत रूप्यकाणां वृद्धिः अभवत्।
वैधानिकप्रकरणानां विषये २०२१ वर्षस्य हलफनामे तस्य विरुद्धं किमपि प्रकरणं न आसीत्। किन्तु २०२६ वर्षस्य हलफनामे तस्य विरुद्धं नवविंशतिः आपराधिकप्रकरणानि उल्लिखितानि सन्ति। एतानि प्रकरणानि राज्यस्य विभिन्नेषु पुलिसस्थानकेषु अभिलेखितानि सन्ति, यथा गड़बेता, खड़गपुर, चांचल, मोहनपुर, खड़दह, लालगढ़, सांकराइल, जामबनी, झाड़ग्राम तथा कोलकातानगरस्य बौबाजार, बेलियाघाटा, हेयर स्ट्रीट् इत्यादिषु।
हलफनामे एतदपि निर्दिष्टं यत् एतेषु कस्यापि प्रकरणस्य अद्यावधि आरोपाः निर्धारिताः न सन्ति।
शैक्षणिकयोग्यतानुसारं २०११ वर्षे सः रवीन्द्रभारती विश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान्।
उल्लेखनीयम् अस्ति यत् २०२१ वर्षस्य विधानसभानिर्वाचने सः नन्दीग्राम निर्वाचनक्षेत्रात् स्पर्धां कृत्वा मुख्यमन्त्री ममता बनर्जी पराजितवान्। अस्मिन् वारे भारतीय जनता पार्टी तं नन्दीग्रामस्य सह भवानीपुर निर्वाचनक्षेत्रात् अपि प्रत्याशित्वेन स्थापिता अस्ति, यत्र मुख्यमन्त्री ममता बनर्जी अपि निर्वाचनस्पर्धायां सन्ति। अतः पुनः उभयोः नेत्रोः मध्ये प्रत्यक्षः स्पर्धा दृश्यते।--------------------
हिन्दुस्थान समाचार