Enter your Email Address to subscribe to our newsletters

पटना, 03 अप्रैलमासः (हि.स.)।
मुख्यमन्त्री नीतीशकुमारः गुड-फ्राइडे-अवसरे प्रभोः यीशु-मसीहस्य बलिदानं स्मृत्वा तस्मै नमनं कृतवान्।
स्वसन्देशे सः उक्तवान् यत् प्रभुः यीशु-मसीहः स्वजीवन-बलिदानयोः माध्यमेन समस्तमानवजातेः प्रति प्रेम-दया-करुणायाः संदेशं दत्तवान्। तेन निर्दिष्टस्य मार्गस्य अनुसरणेन समग्रस्य मानवसमाजस्य कल्याणस्य मार्गः प्रशस्तो भवितुं शक्नोति।
---------------
हिन्दुस्थान समाचार