हरिद्वारे अद्यारभ्य ऑपरेशनप्रहारः शुभारब्धः, एकं मासं यावद्भविष्यति अपराधिषु दृढप्रशानिकप्रक्रिया
हरिद्वारम्, 03 अप्रैलमासः (हि.स.)। जनपदे अपराधिनां, असामाजिकतत्त्वानां संशयास्पदक्रियाकलापानां च निग्रहाय हरिद्वार-पुलिसदलेन अद्य ३ एप्रिल् २०२६ तः “ऑपरेशन प्रहार” नामकः एकमासपर्यन्तः सघनः अभियानः प्रारभ्यते। पुलिसमुख्यालयात् प्राप्तनिर्देशानुसार
एसएसपी


हरिद्वारम्, 03 अप्रैलमासः (हि.स.)।

जनपदे अपराधिनां, असामाजिकतत्त्वानां संशयास्पदक्रियाकलापानां च निग्रहाय हरिद्वार-पुलिसदलेन अद्य ३ एप्रिल् २०२६ तः “ऑपरेशन प्रहार” नामकः एकमासपर्यन्तः सघनः अभियानः प्रारभ्यते। पुलिसमुख्यालयात् प्राप्तनिर्देशानुसारं वरिष्ठपुलिसअधीक्षकः नवनीतसिंहः अभियानस्य सफलतार्थं सर्वेभ्यः क्षेत्राधिकारिभ्यः थाना-प्रभारिभ्यश्च आवश्यकनिर्देशान् प्रदत्तवान्।

वरिष्ठपुलिसअधीक्षकः स्पष्टं कृतवान् यत् अभियानकाले वाञ्छित-अपराधिनः, असामाजिकतत्त्वानि, संशयास्पदव्यक्तयः च पुलिसेन विशेषतः निरीक्ष्यन्ते। अपि च पुलिस-अधीक्षक-नगरः तथा पुलिस-अधीक्षक-ग्रामीणः प्रतिदिनं अभियानस्य निरीक्षणस्य दायित्वं वहतः।

एतेषु विषयेषु विशेषक्रिया भविष्यति—

वाञ्छित-अपराधिनां (इनामित, वारंटी, पलायित-अभियुक्तानां) गिरफ्तारी।

निशीथे यावत् सञ्चालितानां बार, क्लब, पब, होटल, ढाबा, रिसॉर्ट् इत्यादीनां निरीक्षणं, शान्तिव्यवस्थाभङ्गे च दण्डात्मकक्रिया।

वेगेन वाहनचालनं, मद्यपानेन वाहनचालनं, अनङ्कितवाहनानि, संशयास्पदवाहनानि, बाह्यराज्यानां क्रमाङ्कयुक्तवाहनानि च प्रति कठोरपरीक्षा।

हूटरयुक्त तथा मिथ्याक्रमाङ्कपट्टिकायुक्त वाहनानां विरुद्धं क्रिया।

अवैधशस्त्राणां जप्तिः तथा अवैधास्त्रनिर्माणनिर्माणशालानां उपरि आक्रमणम्।

बाह्यराज्यानां संशयास्पदव्यक्तीनां विदेशिनां च सत्यापनप्रक्रिया।

सङ्गठित-अपराधे अपि विशेषध्यानम्—

अभियानकाले पुलिसदलेन विशेषतः दुष्टतत्त्वानां, पेशेवर-अपराधिनां, मार्ग-अपराधकर्तॄणां, शान्तिव्यवस्थाभङ्गकर्तॄणां च विरुद्धं कठोरक्रिया क्रियते। अपि च संशयास्पदव्यक्तीनां सत्यापनम् अपि सुनिश्चितं क्रियते।

हिन्दुस्थान समाचार