Enter your Email Address to subscribe to our newsletters


नव-देहली-नगरम्, ३० अप्रैलमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे परिवर्तमानासु परिस्थितिषु वर्तमान-संकटस्य मध्ये केन्द्र-सर्वकारेण गुरुवासरे उक्तं यत् देशे गृह-उपयोगाय रसोई-गैस (एलपीजी) इत्यस्य आपूर्तिः शत-प्रतिशतं सुनिश्चितिता अस्ति। एलपीजी-बुकिंग-कालावधिः अपि कुशलतया व्यवस्थापिता अस्ति। सहैव कस्यापि वितरकस्य समीपे भण्डार-न्यूनता नास्ति, आपूर्तिश्च निरवच्छिन्नरूपेण प्रवर्तते।
पेट्रोलियम-प्राकृतिक-गैस-मन्त्रालयस्य संयुक्त-सचिवा सुजाता-शर्मा नव-देहली-नगरे आयोजितायां अन्तर-मन्त्रालयीय-प्रेस-वार्तायां उक्तवती यत् देशे गृह-उपयोगाय एलपीजी-आपूर्तिः पूर्णतया सुनिश्चितिता अस्ति। सा अवदत् यत् बुकिंग-प्रक्रियायाः कालावधिः अपि सुयोजितः कृतः अस्ति। सहैव कस्यापि एलपीजी-वितरकस्य समीपे भण्डार-न्यूनता नास्ति, ऑनलाइन-बुकिंग इति च प्रायः ९८ प्रतिशतपर्यन्तं वर्धिता अस्ति। तत्रैव प्रायः ९३ प्रतिशतं एलपीजी-सिलिण्डर-इत्यस्य वितरणं ‘डिलिवरी-प्रमाणीकरण-सङ्केत’-प्रणाल्या माध्यमेन क्रियते।
सुजाता-शर्मणा उक्तं यत् वाणिज्यिक-एलपीजी-आपूर्तिः अपि प्रायः ७० प्रतिशतपर्यन्तं पुनः स्थापिताऽस्ति। तैल-विपणन-निर्माणीनां कार्यकारी-निदेशकानां त्रि-सदस्यीय-समितिः राज्य-सर्वकारैः सह समन्वयं कृत्वा वाणिज्यिक-एलपीजी-विक्रयं सुनिश्चितं करोति। अस्मिन् मासे प्रायः १,९२,५३२ टन-परिमितिः वाणिज्यिक-एलपीजी-विक्रयः जातः, यस्मिन् केवलं गत-दिने एव प्रायः ८,५०० टन-विक्रयः अभवत्। अन्यत्र कुतश्चिदपि वितरकस्य समीपे भण्डार-क्षयस्य कापि सूचना न प्राप्ता।
रसायन-उर्वरक-मन्त्रालयस्य उर्वरक-विभागस्य संयुक्त-सचिवा अपर्णा-एस्.-शर्मा उक्तवती यत् उर्वरकाणां उपलब्धता सुदृढा अस्ति तथा आपूर्तिः अपेक्षया अधिका वर्तते। वर्षा-ऋतु २०२६ कृते ३९०.५४ लक्ष-मीट्रिक-टन-आवश्यकतायाः अपेक्षया वर्तमान-भण्डारः १९३.३८ लक्ष-मीट्रिक-टन अस्ति, यः प्रायः ५० प्रतिशतं भवति।
तया उक्तं यत् एषा स्थिति उत्तम-योजना, पूर्व-भण्डारणं तथा कुशल-परिवहन-व्यवस्थां दर्शयति, येन सर्वेषु राज्येषु आपूर्तिः स्थिरा अस्ति। यूरिया-उपलब्धता ७३.८१ लक्ष-मीट्रिक-टन तथा डीएपी २३.४७ लक्ष-मीट्रिक-टन अस्ति, अन्ये उर्वरकाः अपि पर्याप्त-परिमाणे सन्ति। अधिकतम-खुद्र-मूल्ये (एमआरपी) परिवर्तनं न कृतम्।
अपर्णा-शर्मणा उक्तं यत् वैश्विक-संकटानन्तरम् अपि देशीय-उत्पादनम् आयातश्च स्थिरः अस्ति, येन समग्र-उपलब्धतायां प्रायः ७८ लक्ष-मीट्रिक-टन-वृद्धिः अभवत्। अस्मिन् ६२.३७ लक्ष-मीट्रिक-टन देशीय-उत्पादनात् तथा १५.३९ लक्ष-मीट्रिक-टन आयाततः आगतम्। वैश्विक-निविदाभिः प्रायः ३८ लक्ष-मीट्रिक-टन यूरिया-आपूर्तिः सुनिश्चितिता, फॉस्फेटिक-पोटाशिक-उर्वरकाणां कृते प्रायः १९ लक्ष-मीट्रिक-टन-निविदाः अपि निर्गताः।
बन्दरगाह-पोत-परिवहन-जलमार्ग-मन्त्रालयस्य अतिरिक्त-सचिवः मुकेश-मङ्गलः अवदत् यत् मन्त्रालयं नाविकानां कल्याणं समुद्री-परिचालनस्य च अविघ्नं सुनिश्चितुं विदेश-मन्त्रालयेन, भारतीय-दूतावासैः तथा समुद्री-क्षेत्रस्य हितधारकैः सह निरन्तरं समन्वयं करोति। अस्मिन् क्षेत्रे सर्वे भारतीय-नाविकाः सुरक्षिताः सन्ति, गत-चतुर्विंशति-होरासु कस्यापि भारतीय-ध्वज-युक्त-नौकायाः सम्बन्धी काचिद् घटना न अभवत्।
तेन उक्तं यत् संकटारम्भात् प्रभृति नियन्त्रण-कक्षेण ८,१५५ दूरभाष-आह्वानानि तथा १७,००० अधिकानि ई-पत्राणि व्यवहृतानि। तेषु गत-चतुर्विंशति-होरासु प्राप्तानि १२१ आह्वानानि २८५ ई-पत्राणि च सन्ति। अद्यावधि २,८५७ अधिकानां भारतीय-नाविकानां सुरक्षित-स्वदेश-प्रत्यावर्तनं सुनिश्चितं कृतम्, तेषु गत-चतुर्विंशति-होरासु प्रत्यागतानि २८ नाविकाः अपि अन्तर्भवन्ति। समग्रे भारतदेशे बन्दरगाहानां कार्यं सामान्यरूपेण प्रवर्तते, कुत्रापि अत्यधिक-सम्मर्दस्य सूचना नास्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता