लघु-महान्त-नालिकानां शोधनं ३१ मई-पूर्वं सम्पन्नं भवेत् : महन्त-गिरीशपति-त्रिपाठी
अयोध्या-नगरम्, ३० अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्या-जनपदे गुरुवासरे महापौरः महन्त-गिरीशपति-त्रिपाठी अवदत् यत् आगामी-३१ मई-पर्यन्तं नालिकानां शोधन-व्यवस्था सर्वथा सुनिश्चितं क्रियताम्, येन वर्षाकाले जल-भराव-समस्या निवारिता भवेत्। सः नगर-आयु
नगर निगम समीक्षा


अयोध्या-नगरम्, ३० अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्या-जनपदे गुरुवासरे महापौरः महन्त-गिरीशपति-त्रिपाठी अवदत् यत् आगामी-३१ मई-पर्यन्तं नालिकानां शोधन-व्यवस्था सर्वथा सुनिश्चितं क्रियताम्, येन वर्षाकाले जल-भराव-समस्या निवारिता भवेत्। सः नगर-आयुक्तेन जयेंद्र-कुमार-महाभागेन सह नगर-निगमस्य स्वास्थ्य-निर्माण-विभागयोः समीक्षासभां कुर्वन् आसीत्।

तेन उक्तं यत् पार्षदैः सह सम्पर्कं कृत्वा स्थानीय-नागरिकेभ्यः अभिप्रायं संगृह्य वर्षाकाले मार्गेषु जल-पूरणस्य सम्भाव्य-स्थानानि चिह्नितानि क्रियन्ताम्। यत्र आवश्यकता अस्ति तत्र राबिस्-पूर्ति क्रियते, येन जनानाम् आवागमने बाधा न भवेत्। जल-निष्कासनाय लघु-नालिकानां निर्माणं, पम्प-स्थापनं च आवश्यकतानुसारं शीघ्रं सम्पन्नं कर्तुम् निर्देशः दत्तः। सः अवदत् यत् स्वच्छता-कर्मिणां कार्य-क्षेत्राणि निश्चितानि कृत्वा रोस्टरः निर्गम्यताम् तथा तस्य नियमित-समीक्षा अपि क्रियताम्।

नगर-आयुक्तः अपि नाल-शोधन-कार्ये नियोजित-कर्मचारिभ्यः २४-होरानन्तरं सिल्ट्-अपसारणस्य निर्देशं दत्तवान्। नगर-क्षेत्रे १५४ महान्तः तथा २४५ लघवः नालिका: शोधनीयाः सन्ति। समीक्षायां स्वच्छता-सर्वेक्षणस्य गम्भीरतया ग्रहणं तथा जन-अभिप्रायेन दोष-निवारणं कर्तुं निर्देशः दत्तः। सभायां अपर-नगर-आयुक्तः डॉ.नागेन्द्र-नाथः, भारत-भार्गवः, जलकल-महाप्रबन्धकः सौरभ-श्रीवास्तवः, नगर-स्वास्थ्य-अधिकारी डॉ.आर.एम. शुक्लः, सहायक-नगर-आयुक्तः गुरुप्रसाद-पाण्डेयः इत्यादयः उपस्थिताः आसन्।

सेफ्टी-टैंक-शोधन-संस्थासु कार्यवाहीनगर-निगमेन सेफ्टी-टैंक-शोधनं कुर्वतीनां निजी-संस्थानां पञ्जीकरणाय सप्ताह-कालः निर्दिष्टः। अन्यथा अनियमित-रूपेण सञ्चालितासु संस्थासु अन्वेषणं कृत्वा कार्यवाही करिष्यते इति उक्तम्। हैदरगञ्ज-सेफ्टी-टैंक-दुर्घटनां दृष्ट्वा एषः निर्णयः कृतः।

प्रत्येक-वार्ड-इत्यत्र चरही-स्थापनम्पशु-पक्षिणां पेय-जल-व्यवस्थायै प्रत्येक-वार्ड-मध्ये पञ्च चरह्यः स्थापयितुं योजना कृताऽस्ति। जल-आपूर्तिः सुनिश्चितं कर्तुं जलकल-विभागाय निर्देशाः दत्ताः।

अशोधित-जल-निक्षेपे कठोरतानगर-आयुक्तेन यश-पेपर-मिलाय संचेतनां दातुं निर्देशः दत्तः। मिलत: निर्गतं दूषितं जलं बिना-शोधनं नालिकाभिः सरयू-नद्यां क्षिप्यते इति ज्ञात्वा, अस्य विषये अन्वेषणं कृत्वा आवश्यक-कार्यवाही कर्तुं आदेशः दत्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता