महिला-आरक्षणेन नारी-शक्ति-वन्दन-अधिनियमेन च सम्बद्धेषु विषयेषु चर्चायै विधानसभायाः विशेष-सत्रं अद्य आयोजितम्
रायपुरनगरम्, ३० अप्रैलमास: (हि.स.)। छत्तीसगढ-राज्यस्य विधानसभायाः विशेष-सत्रं गुरुवासरे ३० अप्रैल-दिने आयोज्यते। अस्य सत्रस्य आरम्भः प्रातः ११ वादने भविष्यति। अस्मिन् सत्रे शासनकार्याय केवलम् एका एव सभा निर्धारिता अस्ति। अस्य सत्रस्य मुख्योद्देश्य
छत्तीसगढ़ विधानसभा,फाइल फोटो


रायपुरनगरम्, ३० अप्रैलमास: (हि.स.)। छत्तीसगढ-राज्यस्य विधानसभायाः विशेष-सत्रं गुरुवासरे ३० अप्रैल-दिने आयोज्यते। अस्य सत्रस्य आरम्भः प्रातः ११ वादने भविष्यति। अस्मिन् सत्रे शासनकार्याय केवलम् एका एव सभा निर्धारिता अस्ति।

अस्य सत्रस्य मुख्योद्देश्यं महिला-आरक्षणं तथा नारी-शक्ति-वन्दन-अधिनियमेन सम्बद्धेषु विषयेषु चर्चां कर्तुम् अस्ति। मुख्यमन्त्री विष्णु-देव-सायः पूर्वदिने एव उद्घोषितवान् यत् महिला-आरक्षण-विधेयकस्य विरोधे विपक्षस्य भूमिकायाः विषये अस्मिन् सत्रे निन्दा-प्रस्तावः प्रस्तुतः भविष्यति।

सर्वकारेण एकां नवाचार-प्रवृत्तिं कृत्वा मीडिया-संस्थाभ्यः कार्यवाही-आवरणाय केवलं महिला-पत्रकाराणां नामनिर्देशनं कर्तुं याचितम्, येन कवरेज-मध्ये ‘नारी-शक्ति’ इत्यस्य प्रतिनिधित्वं दृश्येत। अस्य कृते प्रदेशस्य नगर-निगम-पालिका-पञ्चायत-स्तरेभ्यः ५०० अधिकाः महिलाः आमन्त्रिताः सन्ति।

सत्रात् पूर्वं कांग्रेस-विधायक-दलस्य सभा बुधवासरे सम्पन्ना अभवत्, यस्यां विपक्षेण महिला-आरक्षण-विषये सर्वकारं प्रति आक्रामक-रणनीतिः निर्मिता। ततः भाजपा-विधायक-दलस्य सभा अपि सत्रारम्भात् पूर्वं सम्पन्ना।

मुख्यमन्त्रिणः मतं यत् केन्द्र-सर्वकारः महिलाभ्यः ३३ प्रतिशत-आरक्षणं दत्त्वा ताः सशक्ताः कर्तुम् इच्छति स्म, किन्तु विपक्षी “इण्डी-गठबन्धनस्य” नकारात्मक-व्यवहारेण एतत् विधेयकं विफलम् अभवत्। सर्वकार: एतत् देशस्य “७० कोटि महिला-शक्तेः” विश्वासघातं तथा लोकतन्त्रस्य “कृष्ण-युगम्” इति मन्यते।

भाजपा इदं सत्रं माध्यमीकृत्य जनानां समक्षं संदेशं दातुं इच्छति यत् कांग्रेस-दलम् अन्यानि च विपक्ष-दलानि महिला-विरोधिनानि सन्ति। ते पंचायती-राज-व्यवस्थायां पूर्वमेव दत्तं ५० प्रतिशतात् अधिकं आरक्षणं तथा “महतारी वन्दन-योजना” इत्यादीनां उदाहरणैः स्वप्रतिबद्धतां प्रदर्शयन्ति।

एतस्मिन् सन्दर्भे कांग्रेस-विधायक-दलस्य सभा रायपुरे राजीव-भवने अभवत्। ततः नेता-प्रतिपक्षः डा.चरणदास-महन्तः उक्तवान् यत् महिला-आरक्षण-विषये वचनाय महिला-विधायकाः एव प्रशिक्षिताः सन्ति। ताः प्रदेशे महिलानां स्थितिं विस्तरेण सभायां प्रस्तोष्यन्ति।

सः इदमपि उक्तवान् यत् विपक्षः कार्यवाही-बहिष्कारं कर्तुं शक्नोति स्म, किन्तु ते द्रष्टुम् इच्छन्ति यत् सर्वकार: निन्दा-प्रस्तावं कथं प्रस्तौति। सः अवदत् यत् देशे एषः प्रथमः विधानसभाः भविष्यति यत्र निन्दा-प्रस्तावः प्रस्तुतः भवति, इति ते निरीक्ष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani