Enter your Email Address to subscribe to our newsletters

कोलकाता, 30 अप्रैलमासः (हि.स.):पश्चिम-बङ्गाल-प्रदेशे प्रथम-द्वितीय-चरणयोः मतदानं सम्पन्नम्। उभयोः चरणयोः मतदान-प्रतिशतं अभिलेख-स्तरे आसीत्। मतगणना चतुर्थे मई-दिने भविष्यति। अस्मिन् अन्तरे भारतीय-जनता-पार्टी-नेता खड़गपुर-सदर-निर्वाचन-क्षेत्रस्य प्रत्याशी दिलीप-घोष उक्तवान् यत् एसआईआर-विषयं मुद्दत्वेन स्थाप्य कश्चित् अपि निर्वाचनं जेतुं न शक्नोति।
गुरुवासरे प्रातःकाले पत्रकारैः सह वार्तालापे दिलीप-घोष उक्तवान्— “एतत् पूर्णतया क्रिकेट-क्रीडायाः प्रथम-द्वितीय-इनिंग्स-इव अस्ति। विजयी-दलः उभयोः इनिंग्सयोः उत्तमं प्रदर्शनं करोति। प्रथम-चरणे यत् अभवत्, द्वितीय-चरणे अपि तस्यैव निरन्तरता दृष्टा। कोलकाता-नगरस्य तदुपरि च परिसर-प्रदेशेषु मतदान-प्रतिशतं ऐतिहासिकं आसीत्।
सः पुनः उक्तवान्— “मया पूर्वमेव उक्तं यत् ज्ञानेश-कुमारः द्विचरणात्मक-निर्वाचनस्य महतीं चुनौतीम् अङ्गीकृतवान्। जनतायाः सहयोगेन, प्रशासनस्य, पुलिस-विभागस्य, निर्वाचन-आयोगस्य च संयुक्त-प्रयत्नेन मतदानं अत्युत्तम-रीत्या सम्पन्नम्। ममता-बनर्जी बहवः जनसभाः कृतवती, किन्तु तस्याः केवलं एकः एव विषयः आसीत्— एसआईआर। एसआईआर-विषयं मुद्दत्वेन स्थाप्य कश्चित् अपि निर्वाचनं जेतुं न शक्नोति।”
---------------
हिन्दुस्थान समाचार