Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ३० अप्रैलमास: (हि.स.)। खेल-युवा-कल्याण-विभागेन संचालितायां आवासीय-खेल-अकादम्यां प्रवेशार्थं बुधवारे २९ अप्रैल-दिने रायपुर-नगरस्य कोटा-स्थिते स्वामी-विवेकानन्द-स्टेडियममध्ये तीरन्दाजी, फुटबॉल, वेटलिफ्टिंग इत्येतासु क्रीडासु २०४ क्रीडकानां खेल-कौशल-परीक्षणं कृतम्।
आवासीय-खेल-अकादम्यां प्रशिक्षणाय क्रीडकानां चयनं मोटर-एबिलिटी तथा खेल-कौशल-आधारेण क्रियते।
चयन-ट्रायलस्य तृतीये दिने अद्य गुरुवासरे हॉकी तथा एथलेटिक्स-अकादम्यां चयनाय क्रीडकानां पञ्जीकरणं, प्रमाणपत्र-सत्यापनं, वैद्यकीय-परीक्षणं तथा दक्षता-परीक्षणं क्रियते। अग्रिमे दिने १ मई-दिने निर्धारित-मापदण्डान् पूर्णं कुर्वन्तः क्रीडकाः खेल-कौशल-परीक्षणाय उपस्थास्यन्ति।
खेल-युवा-कल्याण-विभागेन चयन-ट्रायलमध्ये सहभागं कुर्वतां क्रीडकानां सुविधा-हेतोः आवासः, भोजनं तथा चिकित्सकीय-व्यवस्थाः अन्याः च आवश्यक-सुविधाः प्रदीयन्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani