वित्तवर्षे 2025-26 इन्वेस्ट इंडिया 60 परियोजनायां 6.1 अरब डॉलरमितस्य निवेशस्य सुविधा प्रदत्ता
नवदिल्ली, 30 अप्रैलमासः (हि.स)। राष्ट्रिय निवेश संवर्धन तथा सुविधा संस्था ‘इन्वेस्ट इंडिया’ इत्यस्याः वित्तवर्षे २०२५-२६ मध्ये १४ राज्येषु ६.१ अरब अमेरिकी डॉलराधिकमूल्ययुक्तानां ६० परियोजनानां भूमौ कार्यान्वयनार्थं साहाय्यं कृतम्। एताभ्यः परियोजन
इन्वेस्ट इंडिया के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 30 अप्रैलमासः (हि.स)।

राष्ट्रिय निवेश संवर्धन तथा सुविधा संस्था ‘इन्वेस्ट इंडिया’ इत्यस्याः वित्तवर्षे २०२५-२६ मध्ये १४ राज्येषु ६.१ अरब अमेरिकी डॉलराधिकमूल्ययुक्तानां ६० परियोजनानां भूमौ कार्यान्वयनार्थं साहाय्यं कृतम्। एताभ्यः परियोजनाभ्यः ३१,०००ाधिकानि रोजगारस्थानानि उत्पत्स्यन्ति इति अपेक्षा अस्ति।

वाणिज्य उद्योग मन्त्रालयेन गुरुवासरे प्रकाशिते वक्तव्ये उक्तं यत् उद्योग तथा आन्तरिक व्यापार संवर्धन विभागस्य अधीनस्था राष्ट्रीय निवेश प्रोत्साहन तथा सुविधा संस्था ‘इन्वेस्ट इंडिया’ इत्यनेन वित्तवर्षे २०२५-२६ मध्ये ६.१ अरब अमेरिकी डॉलराधिकमूल्ययुक्तानां ६० परियोजनानां प्रारम्भे साहाय्यं प्रदत्तम्।

मन्त्रालयेन उक्तं यत् एते निवेशाः १४ राज्येषु सम्पन्नाः सन्ति, येन ३१,०००ाधिकानि संभावितरोजगारस्थानानि सृज्यन्ते इति अनुमानः अस्ति। एतत् भारतं वैश्विकस्तरे प्रियतमनिवेशगन्तव्यरूपेण सुदृढं निरन्तरं च राष्ट्रं दर्शयति।

मन्त्रालयस्य अनुसारं समग्रनिवेशस्य प्रायः ४२ प्रतिशतभागः यूरोपीयदेशेभ्यः आगतः, येन भारतयूरोपयोः आर्थिकसम्बन्धाः अधिकं सुदृढाः भवन्ति।

डीपीआईआईटी विभागस्य सचिवः अमरदीपसिंहभाटिया भारतस्य नीतिगतपरिवेशं विषये उक्तवान् यत् “भारते निवेशस्य वेगः नीतिस्पष्टता संस्थागतप्रतिबद्धता तथा वैश्विकनिवेशकानां अस्माकं व्यवस्थासु विश्वासस्य प्रत्यक्षफलम् अस्ति।” सः अपि अवदत् यत् वित्तवर्षे २०२५-२६ मध्ये ‘इन्वेस्ट इंडिया’ द्वारा कृतः ६.१ अरब अमेरिकी डॉलर निवेशः भारतस्य नियामकपरिवेशस्य दृढतां तथा आर्थिकपरिवर्तनस्य गाम्भीर्यं प्रदर्शयति।

उल्लेखनीयम् अस्ति यत् ‘इन्वेस्ट इंडिया’ भारतसरकारस्य राष्ट्रीय निवेश प्रोत्साहन तथा सुविधा संस्था अस्ति, या २००९ तमे वर्षे वाणिज्य उद्योग मन्त्रालयस्य अधीनं एकया अलाभकारी संस्थया स्थापिताभवत्। एषा संस्था इलेक्ट्रॉनिक्स सेमीकंडक्टर नवीकरणीय ऊर्जा विद्युत वाहन पूंजीगत वस्तु वस्त्र खाद्य कृषि औषधि रसायन महत्वपूर्ण खनिज तथा अवसंरचना इत्यादिषु उच्चप्रभावक्षेत्रेषु विशेषं ध्यानं ददाति।

---------------

हिन्दुस्थान समाचार