Enter your Email Address to subscribe to our newsletters

खूंटी, 30 अप्रैलमासः (हि.स.)।
सन्तसद्गुरोः मेंही परमहंसजीमहाराजस्य द्विचत्वारिंशदधिकशततमजन्मजयन्ती शबरी कुटिया शांतिपुरी तथा मलियादा आश्रम मुरहू इत्यत्र गुरुवासरे महता उत्साहेन आचरिता। कार्यक्रमस्य आरम्भः प्रातःकाले प्रभातफेर्या सह अभवत्। सद्गुरुदेवस्य चित्रं वाहनस्य उपरि सुशोभितं कृत्वा सत्संगिनः बन्दग्रामं मुरहू च मुख्यपथेषु गुरुदेवस्य जयघोषैः सर्वधर्मसमभावस्य राष्ट्रभक्तेः च घोषवाक्यैः सह परिभ्रमणं कृतवन्तः। आश्रमं प्राप्त्वा सत्संगिनः गुरुमहाराजस्य चित्रे माल्यार्पणं कृतवन्तः। ईशस्तुतिः गुरुवन्दना ग्रन्थपाठश्च अनन्तरं सद्गुरुमहाराजस्य जीवनचरितं उपदेशाश्च विस्तारतः निरूपिताः।
अस्मिन् अवसरे स्वामी लक्ष्मणजी महाराजः उक्तवान् यत् सद्गुरुमहर्षिमेहीपरमहंसजी महाराजः अवतारीमहापुरुषः आसीत्। तस्य समग्रं जीवनं दयाभावेन परोपकारेण त्यागेन तपस्यया च व्यतीतम्। सः अपि उक्तवान् यत् सद्गुरुः भगवान् च एक एव भवतः तथा गुरोः वाणी अच्युतत्वेन स्वीकर्तव्या। विभिन्नैः संस्मरणैः गुरुदेवस्य व्यक्तित्वं कृतित्वं च प्रकाश्यते।
स्वामी वैष्णवानन्दजी महाराजः उक्तवान् यत् सन्तसद्गुरवः सदा विश्वकल्याणमेव चिन्तयन्ति। जीवनस्य सर्वाः कठिनताः गुरोः अचलभक्त्या नश्यन्ति। गुरुदेवः दयाकरुणयोः सागरः आसीत्, तेन निर्दिष्टः मार्गः जगतं सुखिनं करिष्यति। लाहिडीबाबा उक्तवान् यत् गुरुः अस्मान् दुष्कृतिभ्यः निवर्त्य श्रेष्ठजीवनं सुखसमृद्धिं च ददाति। मुरलीधरब्रह्मचारी उक्तवान् यत् गुरुमहाराजेन असत्यचौर्यनशाहिंसाव्यभिचारादीनां त्यागः कृत्वा भक्तिमार्गे चलितव्यमिति उपदिष्टम्।
डॉ धर्मेन्द्रनाथतिवारी उक्तवान् यत् महर्षिमेहीपरमहंसजीमहाराजस्य सम्पूर्णं जीवनं मानवीयमूल्यानां प्रति समर्पणं शिक्षयति तथा जीवनस्य सुखमयतां साधयितुं मार्गं दर्शयति। सः उक्तवान् यत् सन्तसद्गुरोः वचनं देवताभिरपि ग्राह्यम्। परोपकारदानाभ्यां धनमनसोः शुद्धिः भवति, प्रायश्चित्तेन पापकषयः, सन्तसङ्गेन च सद्ज्ञानस्य प्राप्तिः भवति।
अस्मिन् समये उभयोः आश्रमयोः भण्डारव्यवस्था आसीत्। शान्तिपुर्यां गङ्गारामसमदेन भण्डारव्यवस्था कृता। अस्मिन् अवसरि संजयसत्सङ्गी जूरणमुण्डा सगुणदास मुचीरायमुण्डा गणपतिठाकुर ध्रुवेन्द्रभास्कर सूरजमलप्रसाद रामहरिसाव सुरेशप्रसाद गोलामुण्डा दिलीपसिंह कांडे मुण्डा सनातनकुमार डॉ रमेशवर्मा सनिकामुण्डा सन्तोषगुप्त सोनामुनीदेवी गीता देवी च अन्ये बहवः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार