Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 30 अप्रैलमासः (हि.स.)।प्रसिद्धः गायकः कैलाश खैरो गुरुवासरे केदारमंदिरधाम प्राप्तवान्, तत्र च बाबा केदारस्य दर्शनं कृत्वा विशेषपूजाअर्चनां कृतवान्। तेन यात्रायाः कृते कृतानां व्यवस्थापनानां प्रशंसा कृता। खेरः धाम्नि स्वस्य लोकप्रियं भक्तिगीतं ‘जय जय केदारा’ इति प्रस्तुतीकृतवान्, येन सम्पूर्णं वातावरणं भक्तिमयं जातम्, तद् श्रुत्वा श्रद्धालवः अपि भावविभोराः अभवन्।
देशस्य प्रख्यातः गायकः कैलाश खेरः मन्दिरपरिसरे आगते सति जिला-प्रशासनस्य, केदारसभायाः सदस्यैः तथा मन्दिरसमित्याः सदस्यैः सह सादरं स्वागतः कृतः। खेरः बाबा केदारस्य दर्शनं कृत्वा विशेषपूजाअर्चनां कृतवान्। अस्मिन् अवसरः सः उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनो दृष्ट्या तथा मुख्यमंत्री पुष्कर सिंह धामिनो नेतृत्वे केदारनाथधाम्नः व्यवस्थासु उल्लेखनीयः सुधारः जातः अस्ति। तेन जिला-प्रशासनस्य, पुलिस-विभागस्य, तीर्थपुरोहितानां, मन्दिरसमित्याः, केदारसभायाः च सदस्यैः सह मिलित्वा यात्राव्यवस्थायाः विषये जानकारी प्राप्ता। तेन यात्राव्यवस्थायाः प्रशंसा कृता। सः उक्तवान् यत् एतावता अधिकसंख्यकश्रद्धालूनाम् उपस्थितौ अपि व्यवस्था धारयितुं प्रशंसनीयं कार्यम् अस्ति।
कैलाश खेरः उच्चहिमालयप्रदेशस्य कठिनपरिस्थितिषु अपि श्रद्धालूनां सुगमां सुरक्षितां च यात्रां सुनिश्चितुं प्रशासनस्य पुलिसस्य च तत्परतां प्रशंसितवान्। तेन जिलाधिकारी विशाल मिश्रम् सह सम्पूर्णप्रशासनिकदलं प्रशंस्य उक्तं यत् सर्वाः व्यवस्थाः सुव्यवस्थितरूपेण सञ्चालिताः सन्ति। सः उक्तवान् यत् बाबा केदारस्य नगरीं प्राप्त्वा मनसि अद्भुता शान्तिः ऊर्जा च अनुभवते।
कैलाश खेरस्य धामप्राप्तौ श्रद्धालवः अपि अत्यन्तं उत्साहिताः दृश्यन्ते। सः पुनः स्वस्य लोकप्रियं भक्तिगीतं ‘जय जय केदारा’ प्रस्तुतीकृतवान्, येन वातावरणं भक्तिमयं जातम्, श्रद्धालवः च भावविभोराः अभवन्।
हिन्दुस्थान समाचार