Enter your Email Address to subscribe to our newsletters

मधुबनी, 30 अप्रैलमासः (हि.स.)।
एग्रीस्टैकपरियोजनायां उत्कृष्टप्रदर्शनस्य निमित्तं मधुबनीजनपदस्य जिलाधिकारी आनन्दशर्मा गुरुवासरे राज्य-मुख्यालये सम्मानितः अभवत्। फॉर्मररजिस्ट्रीकार्यक्रमे मधुबनीजनपदस्य श्रेष्ठप्रदर्शनस्य कारणेन तस्मै राज्यस्तरीयः सम्मानः प्रदत्तः।
कृषकसशक्तीकरणस्य दिशि मधुबनीजनपदस्य भूमिका अग्रणी आसीत्। जिला-जनसम्पर्ककार्यालयेन उक्तं यत् पटना-नगरस्थिते अधिवेशनभवने आयोजितायां एकदिवसीय-राज्यस्तरीय-कार्यशालायां मधुबनीजनपदस्य जिलाधिकारी आनन्दशर्मा एग्रीस्टैकपरियोजनायाः अन्तर्गतं फॉर्मररजिस्ट्रीद्वितीयचरणे उत्कृष्टप्रदर्शनस्य कृते सम्मानितः अभवत्।
अस्मिन् अवसरे तस्मै प्रशस्तिपत्रेण सह पञ्चाशत्सहस्ररूप्यकाणां प्रोत्साहनराशेः चेकः प्रदत्तः। अयं सम्मानः बिहारराज्यस्य मुख्यसचिवेन प्रत्ययअमृत तथा पुलिसमहानिदेशकविनयकुमाराभ्यां संयुक्तरूपेण प्रदत्तः। अस्मिन् कार्यक्रमे राज्यस्य सर्वेषां जनपदानां जिलाधिकारी, पुलिसाधीक्षकाः अन्ये वरिष्ठ-अधिकारीणः च उपस्थिताः आसन्।
भारतसरकारस्य कृषि-किसानकल्याणमन्त्रालयेन सञ्चालितायां एग्रीस्टैकपरियोजनायां कृषकाणां फॉर्मरआइडी निर्मीयते, येन ते कृषि-विभागस्य विविध-योजनानां लाभं पारदर्शक-रूपेण सुनिश्चिततया च प्राप्नुयुः। मधुबनीजनपदेन जिलाधिकारी आनन्दशर्मस्य नेतृत्वे एषः अभियानः मिशन-मोडेन संचालितः सन् उल्लेखनीया प्रगति प्राप्ता।
कृषकाणां ई-केवाईसी प्रक्रिया कृषि-विभागस्य कर्मिभिः सम्पन्ना, अनन्तरं राजस्व-भूमिसुधार-विभागेन जमाबन्दीप्रविष्ट्या सह फॉर्मरआइडी प्रदीयते। जिला-प्रशासनस्य सतत-निरीक्षणेन समन्वित-प्रयत्नैः त्वरित-समस्या-समाधानेन च एषः कार्यः शीघ्रतया अग्रे गतः।
द्वितीयचरणे मधुबनीजनपदः प्रतिदिनं राज्यस्य शीर्ष-पञ्च-जनपदेषु स्वस्थानं धारयन् दृष्टः। अयं जनपदस्य कार्यक्षमतां प्रतिबद्धतां च दर्शयति। अत्र बहुसंख्यक-कृषकाणां फॉर्मरआइडी निर्मिताः सन्ति, येन ते भविष्ये शासकीय-योजनानां लाभं सुलभतया प्रत्यक्षतया च प्राप्स्यन्ति।
अस्मिन् अवसरे जिलाधिकारी आनन्दशर्मा राज्य-शासनस्य प्रति कृतज्ञतां व्यक्तवान्। सः उक्तवान् यत् “अयं सम्मानः समग्र-मधुबनी-जनपदस्य दलस्य सामूहिक-प्रयत्नस्य निष्ठायाः समर्पणस्य च परिणामः अस्ति।” सः अपि अवदत् यत् कृषकहिताय एतादृशेनैव प्रतिबद्धतया कार्याणि भविष्यन्ति।
---------------
हिन्दुस्थान समाचार