नेपालस्य राष्ट्रपतिः बालेन्द्र सर्वकारस्य ६ अध्यादेशेषु केवलम् एकस्मै दत्ता सहमतिः
काठमांडूः, 30 अप्रैलमासः (हि.स.)। नेपालस्य राष्ट्रपतिः रामचंदपौडेलः प्रधानमन्त्रिणः बालेनशाहस्य मन्त्रिपरिषदः अनुमोदितेषु षट्सु अध्यादेशेषु केवलम् एकस्य अध्यादेशस्य अनुमोदनं कृतवान्। अवशिष्टाः पञ्च अध्यादेशाः अद्यावत् स्थगितावस्थायां स्थापिताः सन्त
नेपाल के राष्ट्रपति रामचन्द्र पौडेल


काठमांडूः, 30 अप्रैलमासः (हि.स.)। नेपालस्य राष्ट्रपतिः रामचंदपौडेलः प्रधानमन्त्रिणः बालेनशाहस्य मन्त्रिपरिषदः अनुमोदितेषु षट्सु अध्यादेशेषु केवलम् एकस्य अध्यादेशस्य अनुमोदनं कृतवान्। अवशिष्टाः पञ्च अध्यादेशाः अद्यावत् स्थगितावस्थायां स्थापिताः सन्ति।

राष्ट्रपति-कार्यालयस्य प्रवक्ता रितेशकुमारशाक्येन उक्तं यत्, सरकारस्य सिफारिशस्य आधारेण राष्ट्रपतिना एषः अध्यादेशः निर्गतीकृतः। राष्ट्रपति-कार्यालयेन सूचितं यत् संविधानस्य अनुच्छेद ११४(१) अनुसारं “सहकारी (प्रथम संशोधन) अध्यादेशः” निर्गतीकृतः अस्ति।

पूर्वं संवैधानिकपरिषद्, नेपाल-ऐन, स्वास्थ्यविज्ञान-प्रतिष्ठानम्, विश्वविद्यालयः तथा सार्वजनिकपदाधिकरिणां पदमुक्तिसम्बद्धाः अध्यादेशाः अपि राष्ट्रपतये प्रेषिताः आसन्।

राष्ट्रपति-कार्यालयस्य अनुसारम् अन्ये पञ्च अध्यादेशाः अद्यापि अध्ययन-विचार-विमर्शयोः प्रक्रियायां सन्ति। प्रवक्ता शाक्यः अपि उक्तवान् यत् अन्ये अध्यादेशाः अद्यैव जारी भविष्यन्ति वा न वा, एतत् वक्तुं न शक्यते।

राष्ट्रपतिः पौडेलः अद्य एव एतेषां अध्यादेशानां विषये संवैधानिकविशेषज्ञैः सह परामर्शं कुर्वन् अस्ति। केचन संवैधानिकविद्वांसः अस्य चर्चायै शीतलनिवासम् आगतवन्तः सन्ति।

राष्ट्रपति-भवनस्य पक्षतः उक्तं यत् अन्येषां अध्यादेशानां विषये राष्ट्रपतिः पौडेलः संवैधानिकविद्वद्भ्यः परामर्शं प्राप्य अनन्तरं निर्णयं करिष्यति।

---------------

हिन्दुस्थान समाचार