उत्साहेन सकारात्मक ऊर्जया च लभ्यते सफलता - प्रधानमंत्री मोदी
नवदिल्ली, 30 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् उत्साहः तथा सकारात्मकशक्तिः मनुष्यं निरन्तरं कर्मशीलं कुर्वन्ति, एते एव गुणाः सफलतायाः कुंजी भवन्ति। सः गुरुवासरे ‘एक्स’ इति माध्यमे लिखितवान् यत् कर्मठाः ऊर्जावन्तश्च नागरिका
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदिल्ली, 30 अप्रैलमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् उत्साहः तथा सकारात्मकशक्तिः मनुष्यं निरन्तरं कर्मशीलं कुर्वन्ति, एते एव गुणाः सफलतायाः कुंजी भवन्ति। सः गुरुवासरे ‘एक्स’ इति माध्यमे लिखितवान् यत् कर्मठाः ऊर्जावन्तश्च नागरिकाः एव राष्ट्रस्य महान् बलं भवन्ति, येषां परिश्रमेण विकासस्य नूतनाः मार्गाः प्रसार्यन्ते। सः अपि उक्तवान् यत् एतेषां प्रयत्नानां फलस्वरूपं देशः समृद्धेः, आत्मनिर्भरत्वस्य, उन्नतेः च शिखरं प्रति गच्छति।

प्रधानमन्त्री संस्कृतसुभाषितम् अपि साझा कृतवान् यद् “अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः। करोति सफलं जन्तोः कर्म यच्च करोति सः॥”

अस्य अर्थं स्पष्टयन् सः उक्तवान् यत् उत्साहः तथा सकारात्मकशक्तिः मनुष्यं स्वकर्मसु निरन्तरं सक्रियं कुर्वन्ति। एषः अखंडः उत्साहः एव मनुष्यस्य प्रत्येकं संकल्पं सफलतां प्रति नयति। सः नागरिकान् आह्वयत् यत् ते स्वकर्मसु निरन्तरता ऊर्जां च धारयन्तु, येन व्यक्तिगततया राष्ट्रस्तरस्य च उन्नतिः सुनिश्चितं भवेत्।

---------------

हिन्दुस्थान समाचार