Enter your Email Address to subscribe to our newsletters


जम्मूः, 30 अप्रैलमासः (हि.स.)
जम्मू इत्यस्य शीतकालीनराजधानी तथा श्रीनगर इत्यस्य ग्रीष्मकालीनराजधानी अद्य प्रत्यक्षरेलसेवया संयोजिते अभवताम्। एतेन सह वन्दे भारत एक्सप्रेस् रेलयानानां क्षमता द्विगुणाधिकं वर्धिता, येन पर्यटकानां तीर्थयात्रिकाणां स्थानीयजनानां च कृते सुलभतया यात्राटिकटप्राप्तिः भविष्यति।
अस्मिन् कार्यक्रमे उमर अब्दुल्ला, अश्विनी वैष्णव, जितेन्द्र सिंह तथा अन्ये जनप्रतिनिधयः उपस्थिताः आसन्। तैः जम्मू-रेलस्थानके विंशतिबोगीयुक्ता रेलगाड़ी (संख्या २६४०१) हरितध्वजेन प्रेषिता।
अनन्तरं वैष्णवः सिंहश्च तेनैव रेलयानेन श्रीमाता वैष्णोदेवी कट्रापर्यन्तं गतवन्तौ, ततः च अंजी-खड्ड-सेतुः तथा चिनाब-सेतुः निरीक्षितवन्तौ। वैष्णवः उक्तवान् यत् अस्य रेलमार्गस्य कारणेन कश्मीरघाट्यां आवश्यकवस्तूनां आपूर्तिः सुलभा जाता, पर्यटनं च वर्धितम्। कृषकाः व्यापारिणश्च स्वसामग्रीं बहिर्देशं प्रेषयितुं समर्थाः अभवन्।
नरेन्द्र मोदी इत्यस्य दृष्ट्या अस्यां रेलसंयोजने महान् प्रगति: जाता इति सिंहेन उक्तम्।
अस्य २६६ किलोमीटर-दीर्घस्य मार्गस्य नियमितसेवा २ मई २०२६ दिनाङ्कात् आरभ्यते। पूर्वं अष्टबोगीयुक्ताः आसन्, अधुना तु विंशतिबोगीयुक्ताः कृताः, येन यात्राक्षमता अतीव वर्धिता।
प्रथमरेलयानं प्रातः ६:२० वादने जम्मूतः प्रस्थित्य ११:१० वादने श्रीनगरं प्राप्नोति (कालः—४ घण्टाः ५० मिनिटाः)। द्वितीयसेवा अपि प्रतिदिनं (एकदिनं वर्जयित्वा) सञ्चलति।
एतेन रेलमार्गेण यात्राकालः यः पूर्वं सप्तघण्टात्मकः आसीत्, अधुना त्रिघण्टामध्ये एव सम्पन्नः भवति। पर्यटकानां, व्यापारिणां, छात्राणां च कृते एषः शीघ्रः सुलभः च परिवहनमार्गः अभवत्।
अयं रेलमार्गः न केवलं आर्थिकदृष्ट्या उपयोगी, अपितु सामरिकदृष्ट्यापि महत्त्वपूर्णः अस्ति। सैनिकानां रसदपरिवहनं, आवागमनं च अधिकं शीघ्रं सुरक्षितं च अभवत्।
इतिहासतः महाराजा हरि सिंह इत्यनेन अस्य रेलसंयोजनस्य स्वप्नं दृष्टम्। पश्चात् इन्दिरा गांधी, अटल बिहारी वाजपेयी, मनमोहन सिंह च एतत् कार्यं क्रमशः अग्रे नीतवन्तः। अन्ततः एषा परियोजना चत्वारिंशदधिकवर्षाणां अनन्तरं पूर्णता प्राप्तवती।
अस्य परियोजनायाः मुख्यविशेषता अस्ति—विश्वस्य उच्चतमेषु सेतुषु अन्यतमः चिनाब-सेतुः, यस्य ऊर्ध्वता ३५९ मीटर अस्ति, यः २६६ किलोमीटर-वेगेन वातं सहते, तथा च भूकम्पे अपि स्थिरः तिष्ठति।
तथैव अंजी-सेतुः भारतस्य प्रथमः केबल-स्थापित-रेलसेतुः अस्ति। अस्य निर्माणं दुर्गमप्रदेशे कृतम्, यः अभियान्त्रिकदृष्ट्या अद्भुतम् उदाहरणम् अस्ति।
समग्रे परियोजनायां ३६ सुरङ्गाः तथा ९४३ सेतवः निर्मिताः। दीर्घतमा सुरङ्गा १२.७५ किलोमीटर-परिमिता अस्ति। अस्याः निर्माणे ४३,७८० कोटि रूप्यकाणां व्ययः अभवत्।
अयं रेलमार्गः जम्मूतः बारामूलापर्यन्तं ३२४ किलोमीटर-दीर्घः अस्ति, तथा च अन्याः नवपरियोजनाः अपि प्रारब्धाः।
---------------
हिन्दुस्थान समाचार