दिल्ली-नगरस्य केशव-कुञ्जे ‘संघ गंगा के तीन भगीरथ’ इत्यस्य शततमं मंचनं प्रेरणादायकम्
नव-देहली-नगरम्, ३० अप्रैलमासः (हि.स.)। राष्ट्रीय स्वयंसेवक संघ-स्य शताब्दी-वर्षस्य उपलक्ष्ये नव-देहली-नगरस्य संघ-कार्यालये ‘केशव-कुञ्ज’ इत्यत्र ‘अशोक-सिंघल-सभागारे’ ‘संघ-गङ्गायाः त्रयः भगीरथाः’ नामकस्य हिन्दी-नाट्यस्य मंचनं कृतम्। अस्मिन् अवसरे नव-
नाटक मंचन के बाद कलाकरों को सम्मानित करते मंत्री कपिल मिश्रा


नव-देहली-नगरम्, ३० अप्रैलमासः (हि.स.)। राष्ट्रीय स्वयंसेवक संघ-स्य शताब्दी-वर्षस्य उपलक्ष्ये नव-देहली-नगरस्य संघ-कार्यालये ‘केशव-कुञ्ज’ इत्यत्र ‘अशोक-सिंघल-सभागारे’ ‘संघ-गङ्गायाः त्रयः भगीरथाः’ नामकस्य हिन्दी-नाट्यस्य मंचनं कृतम्। अस्मिन् अवसरे नव-देहली-नगरस्य कला-संस्कृति-भाषा-मन्त्री कपिल मिश्रा तथा संघस्य अखिल-भारतीय-प्रचार-प्रमुखः सुनील-आंबेकर: उपस्थितौ आस्ताम्।

‘संघ-गङ्गायाः त्रयः भगीरथाः’ इति नाट्यं संघस्य प्रथम-त्रय-सरसंघचालकानां— केशव बलिराम हेडगेवार, माधव सदाशिव गोलवलकर (गुरुजी), तथा बालासाहेब देवरस—जीवनं तेषां च योगदानं आधृत्य निर्मितम् अस्ति। अस्य नाट्यस्य माध्यमेन संघस्य शतवर्षीय-यात्रा सजीव-रूपेण प्रस्तुतिता अस्ति। संघस्य शतवर्ष-पूर्ते: उपलक्ष्ये आयोजितस्य अस्य नाट्यस्य एतत् शततमं मंचनम् आसीत्।

अस्मिन् अवसरे मन्त्री कपिल-मिश्रः अवदत् यत्— “एतादृश्यः नाट्य-प्रस्तुतयः राष्ट्रभक्तेः, संगठनस्य, अनुशासनस्य, समर्पणस्य च भावनां सुदृढीकुर्वन्ति। गङ्गाया इव अयं वैचारिक-सांस्कृतिक-प्रवाहः निरन्तरं प्रवहति, अस्मात् एव समाजाय राष्ट्राय च नूतना दिशा लभ्यते। नाट्य-मंचन-लेखन-आदिभिः सांस्कृतिक-कृतिभिः राष्ट्र-निर्माणस्य कार्यं सततं प्रवर्तताम्—एषा अस्माकं सामूहिकी दायित्वम्।”

एतत् नाट्यं श्रीधरगाडगे लिखितवान् तथा संजयपेंडसे निर्देशितवान् अस्ति। एषा नाट्य-कृति: तासां महतां विभूतिनां जीवनं सजीवयति, याभिः विपरीत-परिस्थितिष्वपि राष्ट्रहितं सर्वोपरि कृत्वा सशक्तं, अनुशासितं, व्यापकं च संगठनं निर्मितम्।

संघस्य शताब्दी-वर्षस्य उपलक्ष्ये अस्य नाट्यस्य देशव्यापि अनेकानि मंचनानि आयोज्यन्ते। अस्य नाट्यस्य उद्देश्यः राष्ट्रवादस्य, स्व-अनुशासनस्य, सामाजिक-समरसतायाः तथा संघस्य गौरवशालिनः इतिहासस्य नूतन-पीढ्यै प्रभावी-रूपेण संप्रेषणम् अस्ति। अस्मिन् कार्यक्रमे बहवः गणमान्य-अतिथयः, सामाजिक-कार्यकर्तारः, साहित्यकाराः, कलाकाराः, नागरिकाश्च उपस्थिताः आसन्।

संघस्य शतवर्ष-पूर्त्याः उपलक्ष्ये ३० अप्रैल २०२५ दिनाङ्कात् आरभ्य देशव्यापि अस्य नाट्यस्य मंचनं क्रियमाणम् अस्ति। नव-देहली-नगरे पूर्वमेव विविधेषु स्थलेषु अस्य नाट्यस्य मंचनं सम्पन्नम्।

हिन्दुस्थान समाचार / अंशु गुप्ता