Enter your Email Address to subscribe to our newsletters

नव-देहली-नगरम्, ३० अप्रैलमासः (हि.स.)। देहली-नगरस्य सफदरजंग-रेलस्थानकात् गुरुवासरे सोमनाथ-स्वाभिमान-पर्व-यात्रायाः शुभारम्भः अभवत्। केन्द्रीय-संस्कृति-पर्यटन-मन्त्री गजेन्द्रसिंह-शेखावत-महाभागः तथा देहली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता-महाभागा १४०० श्रद्धालून् वहन्तीं विशेष-रेलयानं हरित-ध्वजं दर्शयित्वा प्रस्थापितवन्तौ।
केन्द्रीय-मन्त्री शेखावत-महाभागः अवदत् यत् अद्य नव-देहल्याः सफदरजंग-रेलस्थानकात् सोमनाथ-स्वाभिमान-पर्व-यात्रायाः शुभारम्भः अभवत्। सः मुख्यमन्त्री रेखा-गुप्ता-महाभागया सह मन्त्रिणा कपिल-मिश्र-महाभागेन सह यात्रिकैः सह साक्षात्कारं कृत्वा तेषां यात्रायै शुभाशंसाः दत्तवान्। सः अवदत् यत् अस्य यात्रायाः उद्देश्यं देशस्य सांस्कृतिक-धरोहरस्य तथा राष्ट्रीय-स्वाभिमानस्य कालजयिनः सोमनाथ-मन्दिरस्य गौरव-गाथायाः माध्यमेन प्रस्तुतीकरणम् अस्ति। भारतीय-आस्थायां सद्भावपूर्णा एकता निहिता अस्ति।
मुख्यमन्त्री रेखा-गुप्ता-महाभागा अवदत् यत् एषा यात्रा ‘सहस्र-वर्षाणां अखण्ड-आस्थायाः’ समर्पिता एकः ऐतिहासिक-सांस्कृतिक-उद्यमः अस्ति, यस्य उद्देश्यः देहली-निवासिनः स्वीय-आध्यात्मिक-धरोहरेण सह संयोजयितुम् अस्ति।
उल्लेखनीयं यत् मुख्यमन्त्रिणः नेतृत्वे एषा यात्रा आरब्धा अस्ति। अनेन सह देहली देशस्य प्रथमं राज्यं/केन्द्रशासित-प्रदेशः अभवत्, यत् एकस्मिन् काले प्रायः १४०० श्रद्धालून् एतादृश्यां विशालायां सुव्यवस्थितायां सोमनाथ-यात्रायां प्रेषितवान्। अस्यां यात्रायां देहली-सर्वकारेण श्रद्धालून् सोमनाथ-मन्दिरेण सह अन्येषां प्रमुख-धार्मिक-स्थलानां दर्शनं कारयिष्यते। यात्रायाः सम्पूर्णं रेल-भाटकं भोजनं च देहली-सर्वकारेण वह्यते। अपरं गुजरात-सर्वकारेण यात्रिणां निवासः, स्थानीय-परिवहनं तथा मन्दिर-दर्शनस्य सम्पूर्णा व्यवस्था करिष्यते। उभयोः राज्ययोः समन्वयेन एषा यात्रा सुरक्षित-सुव्यवस्थित-अनुभवः भविष्यति।
मुख्यमन्त्री उपस्थितान् श्रद्धालून् अभिनन्द्य अवदत् यत् एषा यात्रा भारतस्य समृद्ध-सांस्कृतिक-धरोहरस्य, आस्थायाः सभ्यतायाः च गौरवस्य प्रतीकः अस्ति। एषा यात्रा केवलं धार्मिक-आयोजनं न, अपि तु देशस्य सहस्र-वर्ष-प्राचीनायाः सांस्कृतिक-चेतनायाः आस्थायाः च उत्सवः अस्ति। प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागस्य नेतृत्वे देशे काशी-विश्वनाथ-परिसरः, महाकाल-लोकः तथा अयोध्यायां राम-मन्दिरम् इत्यादयः ऐतिहासिक-कार्याः भारतीय-संस्कृतिम् नूतनां पहचानं नूतनां च ऊर्जां दत्तवन्तः। एषा यात्रा तस्यैव भावनायाः अग्रे गमनस्य प्रयासः अस्ति।
देहली-पर्यटन-मन्त्री कपिल-मिश्र-महाभागः अवदत् यत् सर्वकाररस्य अयं प्रयासः केवलं यात्रायाः व्यवस्थापनं न, अपि तु नागरिकाणां आस्था-सम्मान-सांस्कृतिक-संबन्धं सशक्तीकर्तुं महत्त्वपूर्णः संकल्पः अस्ति। भगवन्तं सोमनाथं प्रति प्रार्थना अस्ति यत् सर्वेषां श्रद्धालूनां यात्रा सुरक्षित-मङ्गलमयी सफल च भवतु। ते स्वीय-कुटुम्बानां राष्ट्रस्य च समृद्धये याः मनोकामनाः वहन्ति, ताः सर्वाः अवश्यम् पूर्णाः भवन्तु।
एतत् विशेष-रेलयानं सफदरजंग-रेलस्थानकात् गुजरात-राज्यस्य वेरावल-नगरं प्रति गमिष्यति। तत्रतः श्रद्धालवः सोमनाथ-मन्दिरं अन्यानि च धार्मिक-स्थानानि द्रक्ष्यन्ति। सर्वे यात्रिण: ५ मई-दिने पुनः देहलीं प्रत्यागमिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता