Enter your Email Address to subscribe to our newsletters

- प्रदेशे समग्रे चलति जल संरचनानां संरक्षणस्य, संवर्धनस्य च कार्यम्भोपालम्, 30 अप्रैलमासः (हि.स.) ।मध्यप्रदेशे सञ्चालितं ‘जल-गङ्गा-संवर्धन-अभियानं’ जलसंरक्षणस्य दिशि प्रभावी जनान्दोलनरूपेण उद्भवति। अस्यैव आन्दोलनस्य प्रभावेन गुना-जिले गोचा-नदीस्थितस्य स्टॉप-जलबंधकस्य स्थितिः परिवर्तिता। जनसहभागितया पूर्वं शुष्के स्थिते जलबंधकस्य पुनः जीवनधारा प्रवहति।
मुख्यमन्त्रिणो डॉ. मोहन यादवस्य नेतृत्वे १९ मार्चतः ३० जून २०२६ पर्यन्तं प्रवर्तमानः अयं अभियानः समग्रप्रदेशे जलसंरचनानां संरक्षणं, संवर्धनं पुनर्जीवनं च नूतनवेगं दत्तवान्। अस्य अभियाने गुना-जिलस्य राघौगढ़-जनपद-पञ्चायतेः मोररवास-ग्रामपञ्चायत्यां जनसहभागितायाः उत्कृष्टं उदाहरणं दृष्टम्, येन स्पष्टं जातं यत् सामूहिकप्रयत्नैः जलसंकटस्य समाधानं शक्यम्।
जनसंपर्क-अधिकारी आर.आर. पटेलः अवदत् यत् गोचा-नद्यां स्थिते स्टॉप-जलबंधके पूर्वं जलधारणं न भवति स्म, वर्षाजलं च अन्यत्र वहति स्म। तेन ग्रामवासिनां पशुधनस्य च किञ्चित् लाभः न आसीत्। स्थानीय-जनाः, जनप्रतिनिधयः स्वयंसेवी-संस्थाश्च मिलित्वा ५०,००० रुप्यकाणां जनसहयोगेन बोरी-बन्धन-कार्यं ६ अप्रैलतः ११ अप्रैल पर्यन्तं सम्पन्नम्। अस्य लघु किन्तु प्रभावशालिनः प्रयासस्य फलतः अधुना जलबंधके जलधारणक्षमता वर्धिता, जलसंग्रहणस्थितिः च अत्युत्तमा जाता।
अस्य उपक्रमस्य प्रमुखविशेषता ग्रामवासिनां सक्रियसहभागिता आसीत्। ते उत्साहपूर्वकं श्रमदानं कृत्वा जलसंरक्षणस्य संदेशं प्रसारितवन्तः, प्रत्येकं जलबिन्दुं रक्षितुं संकल्पं च कृतवन्तः। जनप्रतिनिधीनां नेतृत्वे एतत् कार्यं सामूहिकतया सम्पन्नम्, येन सम्पूर्णक्षेत्रे सकारात्मकः संदेशः प्रसृतः।
बोरी-बन्धनात् जलउपलब्धिः वर्धिता, येन अधुना पशूनां वन्यजीवानां च कृते नियमितं जलस्रोतः सुनिश्चितः। यत् स्थानं पूर्वं शुष्कं आसीत्, तत् अधुना जीवनदायि जलस्रोतः जातम्।
गोचा-नदी-स्टॉप-जलबंधकस्य अयं परिवर्तनः ‘जल-गङ्गा-संवर्धन-अभियानस्य’ अन्तर्गतं जनसहभागिताया प्रभावशीलतां प्रदर्शयति। एषा पहल अन्येषां प्रदेशानां कृते अनुकरणीयः आदर्शः जातः, यः दर्शयति यत् सामूहिकप्रयत्नैः, जनसहयोगेन सकारात्मक-चिन्तया च जलसंरक्षणं जनान्दोलनरूपेण परिवर्तयितुं शक्यते।
---------------
हिन्दुस्थान समाचार