Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ३० अप्रैलमास: (हि.स.)। गतदिवसे प्रधानमन्त्रिणः नरेन्द्र-मोदी-महाभागस्य करैः लोकार्पणानन्तरं वाराणसी-नगरस्य सारनाथ-स्थिते सोवा-रिग्पा-चिकित्सालये शनैः शनैः रोगिणां आगमनं प्रारब्धम्।
अस्मिन् चिकित्सालये अस्थमा, मधुमेहः, उच्च-रक्तचापः, नेत्रयोः दाहः, गठिया, कफः, कब्जः, अनिद्रा, त्वचा-रोगाः इत्यादयः विविधाः रोगाः प्रति उपचाराय प्रायः द्विशतं रोगिणः अद्यावधि उपचारं प्राप्तवन्तः।
रोगिणां परीक्षण-चिकित्सायै चिकित्सकानां द्वे दले निरन्तरं चिकित्सालये कार्यरते स्तः। डॉ.सुशीलः अवदत् यत् सारनाथ-स्थितस्य तिब्बती-शिक्षा-संस्थानस्य परिसरः एव सोवा-रिग्पा-चिकित्सालयः निर्मितः अस्ति। अस्मिन् चिकित्सालये जटिलतम-रोगाणाम् अपि उपचारः सोवा-रिग्पा-चिकित्सा-पद्धत्या क्रियते। ये रोगिणः सामान्य-औषधोपचारात् स्वस्थाः भवन्ति, तेषां कृते औषधयः दीयन्ते, अन्यथा परीक्षणानन्तरं समुचित-उपचारः क्रियते।
सः इदमपि उक्तवान् यत् चिकित्सालये भौतिक-चिकित्सा (फिजियोथेरैपी) व्यवस्था अपि अस्ति। येषां रोगिणां आवश्यकता भवति, तेषां कृते फिजियोथेरैपी-सेवा अपि प्रदीयते। चिकित्सालये कार्यरताः चिकित्सकाः पूर्ण-सेवा-भावेन रोगिणां उपचारं कुर्वन्ति, भविष्येऽपि तत् निरन्तरं करिष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani