Enter your Email Address to subscribe to our newsletters

वाराणसी,30 अप्रैलमासः (हि.स.)। स्वामी अविमुक्तेश्वरानंदेन ज्योतिष्पीठाधीश्वरेण जगद्गुरुणा शंकराचार्येण घोषितं यत् सः आगामि ३ मई दिनाङ्के गोरक्षपुरनगरात् एकाशीतिदिवसीयां “गविष्ठी-धर्मयुद्ध-यात्राम्” आरभते। अस्याः यात्रायाः कृते सः २ मई दिनाङ्के वाराणसीनगरात् गोरखपुरं प्रति प्रस्थानं करिष्यति।
एतां सूचनां केदारघाटस्थितस्य श्रीविद्यामठस्य संजय पाण्डेयेन गुरुवासरे प्रदत्ता। तेन उक्तं यत् शंकराचार्यः बुधवासरे काशीं आगत्य भक्तेभ्यः दर्शनं तथा आध्यात्मिकमार्गदर्शनं कृतवान्। सः गोरखपुरगमनात् पूर्वं काश्यां किञ्चित्कालं निवत्स्यति।
अपरं च उक्तं यत् शंकराचार्यः अद्य सायंकाले श्रीविद्यामठे श्रीगुरुकुलन्यासेन आयोजिते “गौ-प्रहरी-प्रतियोगितायाः” पुरस्कार-वितरण-कार्यक्रमे उपस्थितः भविष्यति तथा विजेतृभ्यः पुरस्कारान् दास्यति।
हिन्दुस्थान समाचार