Enter your Email Address to subscribe to our newsletters

लखनऊ,30 अप्रैलमासः (हि. स.)।
उत्तरप्रदेशविधानसभायां गुरुवासरे अधिवेशनारम्भात् पूर्वं सत्तापक्षस्य विपक्षस्य च विधायकाः प्रदर्शनं कुर्वन्तः दृष्टाः। भारतीयजनतापार्टी इत्यस्य महिलाविधायकानां नेतृत्वे विधायकाः मन्त्रिणः च विधानसभां प्राप्तवन्तः। तेषां हस्तेषु “नारीशक्तेः अपमानं न सहिष्यते हिन्दुस्थानम्” इत्यादयः उद्घोषाः लिखिताः पट्टिकाः आसन्।
नारीसशक्तिकरणविषये चर्चार्थं अधिवेशनम् आहूतम्। पूर्वाह्णे एकादशवादने कार्यवाही आरभ्यते इति, तस्मात् पूर्वं योगीसरकारस्य मन्त्रिणः विधायकाः नेतारश्च महिलारक्षणस्य समर्थनार्थं पट्टिकाः धारयन्तः उपस्थिताः, विपक्षस्य विरुद्धं घोषणाः कुर्वन्तः आसन्।
परिवहनमन्त्री दयाशंकरसिंहः उक्तवान् यत् विपक्षः स्त्रीविरोधी अस्ति। समाजवादीपार्टी दलस्य अन्तर्गतं कुलात् बहिः स्थिताभ्यः महिलाभ्यः पदं न दीयते, केवलं डिम्पल यादव एव महत्त्वपूर्णदायित्वं लभते। भारतीयराष्ट्रीयकाङ्ग्रेस दलस्य अपि सोनिया गांधी तथा प्रियंका गांधी एव प्रमुखतया अग्रे स्थाप्येते। सः अवदत् यत् सम्पूर्णं राष्ट्रं एतत् पश्यति। संसदे अपि कांग्रेसदलस्य नारीवन्दनविधेयकस्य विरोधः कृतः। भारतीयजनतापार्टी स्त्रीणां अधिकारप्राप्तये कार्यं करोति। नरेन्द्रमोदीस्य नेतृत्वे तथा उत्तरप्रदेशे योगीसरकारस्य आगमनात् स्त्रीणां सम्मानः वर्धितः, तासां सरकारीनियुक्तिषु प्राथमिकता अपि दीयते, स्त्रियः उद्यमिन्यः भवन्ति।
अन्यतः माताप्रसादपाण्डेयस्य नेतृत्वे समाजवादीपार्टीविधायकाः चौधरीचरणसिंहस्य प्रतिमायाः समीपे उपवेशनं कृतवन्तः। वरिष्ठविधायकः संग्रामसिंहयादवः उक्तवान् यत् भाजपा निरन्तरं मिथ्यावचनं करोति। सः अवदत् यत् २०२३ वर्षे संसदे महिलारक्षणविधेयकः पारितः आसीत्, समाजवादीपार्टी तस्य समर्थनं करोति, किन्तु मोदीसरकार तस्य कार्यान्वयनं न करोति।
सः अपि उक्तवान् यत् जातिगणनाविषये अपि “यस्य यथा भागीदारी तस्य तथा हिस्सेदारी” इति उक्तं, किन्तु तदपि न क्रियते। भाजपा स्वकृतकुचक्रे एव पतिता, समाजवादीपार्टी तस्य विरोधं करोति इति।
---------------
हिन्दुस्थान समाचार