Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, ३० अप्रैलमासः (हि.स.)। उत्तर-प्रदेश-राज्यस्य वाराणसी-जनपदे महात्मा-गान्धी-काशी-विद्यापीठे समाजशास्त्र-विभागेन तथा मदन-मोहन-मालवीय-हिन्दी-पत्रकारिता-संस्थानेन विश्व-संवाद-केन्द्रेण च संयुक्ततत्त्वाधानेन ३ मई-मासे (रविवासरे) सायंकाले चतुर्वादनात् आरभ्य गांधी-अध्ययन-पीठ-सभागारे आद्य-पत्रकारस्य देवर्षेः नारदस्य जयन्ती आयोजिता भविष्यति।
आद्य-पत्रकार-देवर्षि-नारद-जयन्त्यां “पञ्च-परिवर्तनम् : समाजः एवं मीडिया” इति विषये संगोष्ठी तथा पत्रकार-सम्मान-समारोहस्य आयोजनं भविष्यति। अस्य समारोहस्य मुख्यातिथि: हिन्दुस्थान-समाचार-न्यूज़-संस्थायाः सम्पादकः जितेन्द्र-तिवारी भविष्यति। अध्यक्षतां च महात्मा-गान्धी-काशी-विद्यापीठस्य कुलपतिः प्रोफेसर आनन्द-कुमार-त्यागी करिष्यति।
समारोह-समित्याः सदस्यः डॉ.अम्बरीष-रायः गुरुवासरे उक्तवान् यत् देवर्षिः नारदः अस्माभिः प्रथमः पत्रकारः इति ज्ञायते। अतः तस्य जयन्ती बहुना समाजेन उत्साहेन आचर्यते। अस्याः जयन्त्याः उत्सवाय विश्वविद्यालय-परिवारः आमन्त्रितः अस्ति।
समारोहे मुख्यातिथिना जितेन्द्र-तिवारिणा समाजे कार्यरताः षट् पत्रकाराः सम्मानिताः भविष्यन्ति। अपि च अस्मिन् कार्यक्रमे विश्वविद्यालयस्य बहवः छात्राः छात्र्यश्च उपस्थिताः भविष्यन्ति। समाजस्य प्रबुद्ध-वर्गः, शिक्षा-क्षेत्रस्य तथा पत्रकारिता-क्षेत्रस्य अनेके गणमान्याः अपि समारोह-समित्या आमन्त्रिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता