Enter your Email Address to subscribe to our newsletters


भोपालम्, ३० अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः अवदत् यत् लोकमाता देवी अहल्याबाई-होल्करः आदर्श-योद्धृरूपेण, शक्तिशालिन्याः शासिकाया रूपेण तथा पुण्यश्लोकाया रूपेण सनातन-संस्कृतिं गौरवान्वितवती अस्ति।
मुख्यमन्त्री डॉ.यादवः बुधवासरे सायङ्काले खरगोन-जनपदस्य ऐतिहासिकनगरे महेश्वरे “गोदा-नर्मदा” जलयात्रायाः समापनसमारोहं सम्बोधयन् आसीत्। सः उक्तवान् यत् ३००तम-जयन्ती-अवसरे महाराष्ट्र-शासनेन आयोजितायाः ‘गोदा-नर्मदा’ जलयात्रायाः समापनं तस्याः कर्मभूमौ महेश्वरे अद्य उत्साहपूर्णं वातावरणं दृश्यते, यत् अहल्यादेव्याः परम्पराया: महत्त्वं प्रकटयति।
मुख्यमन्त्री डॉ.यादवः अवदत् यत् लोकमाता देवी अहल्याबाई-होल्करस्य परम्परा एतादृशी अस्ति यत् तां समर्पिता जलयात्रा यस्याः शुभारम्भः एकस्य राज्यस्य मुख्यमन्त्रिणा क्रियते, समापनं च अन्यराज्यस्य मुख्यमन्त्रिणा भवति। सः उक्तवान् यत् महाराष्ट्र-मध्यप्रदेशौ स्वसांझपरम्पराकारणात् युगल-भ्रातरौ इव सम्बद्धौ स्तः। सः ‘गोदा-नर्मदा’ जलयात्रायाः सफलायोजनाय महाराष्ट्र-शासनं अभिनन्दितवान्।
मुख्यमन्त्री डॉ.यादवः अवदत् यत् लोकमाता अहल्यादेव्याः आदर्शाः मध्यप्रदेश-सर्वकारस्य प्रेरणा सन्ति। सः उक्तवान् यत् ३००तम-जयन्ती-अवसरे राज्य-शासनेन गतवर्षे महेश्वरे इन्दौरे च लोकमात्रे समर्पिताः कैबिनेट्-सभाः आयोजिताः आसन्। तस्याः प्रेरणया एव महेश्वरे दशहरायां शस्त्रपूजन-कार्यक्रमः अपि आयोजितः आसीत्।
मुख्यमन्त्री अवदत् यत् महेश्वरस्य अहल्याघाटे प्रतिदिनं लाइट्-एण्ड्-साउण्ड्-प्रदर्शनं क्रियते, यस्मिन् लोकमातु: गौरवपूर्णः इतिहासः प्रदर्श्यते। राज्य-सर्वकारः महेश्वरे अहल्यालोकस्य निर्माणं कुर्वती अस्ति, यस्य भूमिपूजनं शीघ्रं भविष्यति। सरकारः महेश्वर-आगमनाय फोरलेन-राजमार्गं अपि निर्माति। येन प्रकारेण लोकमाता देवस्थानानि, घाटाः जनसुविधाश्च निर्मितवती, तद्वत् एव राज्य-सरकारः देवस्थानेषु सुव्यवस्थां, धार्मिकनगराणां हेली-सेवया संयोजनं च करोत्।
कार्यक्रमे महाराष्ट्रस्य जलसंसाधन-मन्त्री डॉ.राधाकृष्ण-विखे-पाटिलः अवदत् यत् लोकमाता अहल्याबाई-होल्करस्य जलप्रबन्धन-लोककल्याण-सुशासनादर्शाः अद्यापि प्रेरणास्रोतांसि सन्ति। ‘गोदा-नर्मदा’ जलयात्रा तस्याः जलप्रबन्धन-परम्परां जनजागरूकतायै वहति स्म। सः उक्तवान् यत् यात्रायां गोदावरी-नदीसहितं महाराष्ट्रस्य १३० नद्याः जलं तथा च लोकमातायाः जन्मस्थलस्य चोंडी-ग्रामस्य पवित्रमृत्तिका अपि आनीता, यया महेश्वरे पादपारोपणं क्रियते।
महाराष्ट्रस्य राजस्वमन्त्री चन्द्रशेखर-बावनकुले अवदत् यत् एषा जलयात्रा आध्यात्मिकता, पर्यावरणसंरक्षणं सांस्कृतिकता च संगमः अस्ति। युवानः, कृषकाः, स्वसहायता-समूहाः च अस्यां यात्रायां जनभागीदारीं प्रदर्शितवन्तः। मुख्यमन्त्रिण: डॉ.यादवस्य नेतृत्वे मध्यप्रदेशे जलक्रान्तिः जायते, या लोकमातायाः आदर्शानां उत्सवः अस्ति।
कार्यक्रमे अन्ते मुख्यमन्त्री डॉ.यादवः महेश्वरस्य अहल्याघाटे विधिपूर्वकं भगवती नर्मदायाः महाआरतीं कृतवान् तथा च नर्मदातीरस्य सुख-समृद्ध्यर्थं प्रार्थनां कृतवान्। तेन छत्रपति-शिवाजी-महाराजस्य लोकमाता-अहल्यादेव्याश्च प्रतिमायां पुष्पाञ्जलिः अर्पिता।
कार्यक्रमे लोकमाता अहल्याबाई-होल्करस्य वंशजः यशवंतराव-होलकरः, केन्द्रीयमन्त्री सावित्री-ठाकुरः, सांसदादयः अन्ये च जनप्रतिनिधयः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani