Enter your Email Address to subscribe to our newsletters

मोतिहारीनगरम्, ०४ अप्रैलमासः (हि.स.)। महात्मा-गान्धी-केन्द्रीय-विश्वविद्यालयस्य तृतीय-दीक्षान्त-समारोहे उपराष्ट्रपतिः सी.पी.-राधाकृष्णन् बिहारस्य ऐतिहासिक-वैचारिक-परम्परां प्रशंसन् अवदत् यत् अत्रैव गौतम-बुद्धः महात्मा-गान्धी च ज्ञानं प्राप्तवन्तौ स्व-जीवनस्य उद्देश्यम् अवाप्तवन्तौ। तेन लोकनायक-जयप्रकाश-नारायणस्य योगदानम् अपि स्मारितम् तथा छात्रान् राष्ट्र-निर्माणे सक्रिय-भूमिका-ग्रहणाय आहूतवान्।
उपराष्ट्रपतिः अवदत् यत् भारतदेशः विश्वस्य चतुर्थी बृहत्तमा अर्थव्यवस्था अभवत् तथा राष्ट्रीय-शिक्षा-नीतिः २०२० विश्वविद्यालये प्रभावी-रूपेण कार्यान्विता अस्ति। अस्मिन् अवसरे उत्कृष्ट-छात्रेभ्यः स्वर्ण-पदकानि अपि प्रदत्तानि।
हिन्दुस्थान समाचार / अंशु गुप्ता