मां रक्षा काल्याः पूजा अप्रैलमासीये षोडशे
रांची, 04 अप्रैलमासः(हि.स.)। रांचीनगरस्य मेसरा बस्त्यां अस्मिन् वर्षे अपि १६ अप्रैल दिनाङ्के “माता रक्षा काली पूजा” धूमधामेन आचरिष्यते। शेखरकुलस्य कुलदेव्याः रूपेण आरब्धा एषा परम्परा गत १६३ वर्षेभ्यः निरन्तरं प्रवर्तते। शनिवासरे प्राप्तया सूचनया
फाइल फोटो मां काली


रांची, 04 अप्रैलमासः(हि.स.)।

रांचीनगरस्य मेसरा बस्त्यां अस्मिन् वर्षे अपि १६ अप्रैल दिनाङ्के “माता रक्षा काली पूजा” धूमधामेन आचरिष्यते। शेखरकुलस्य कुलदेव्याः रूपेण आरब्धा एषा परम्परा गत १६३ वर्षेभ्यः निरन्तरं प्रवर्तते।

शनिवासरे प्राप्तया सूचनया अनुसारं पूजाया शुभारम्भः रात्रौ १२ वादने विधिविधानपूर्वकं भविष्यति, तथा १७ अप्रैल दिनाङ्के सायं ७ वादने प्रतिमाविसर्जनं करिष्यते। अस्याः पूजायाः कीर्तिः इत्थं विस्तृता अस्ति यत् अन्येभ्यः अपि राज्येभ्यः श्रद्धालवः अत्र आगच्छन्ति।

अस्य आयोजनस्य अध्यक्षः भगवान शेखरः तथा रघुनन्दन शेखरः सह सम्पूर्णः परिवारः अस्य सफलतायै निरन्तरं प्रयासं कुर्वन्ति। साधकानां मतानुसारं पूर्वजैः आरब्धा एषा आध्यात्मिकपरम्परा आगामिसंततिभिः अपि पूर्णनिष्ठया पालनं क्रियते।

---------------

हिन्दुस्थान समाचार