चेन्नईनगरस्य विरुद्धं स्पर्धातः पूर्वं जितेश शर्मा कथितवान्, “कीर्तिमानं न, स्वीयायां प्रक्रियायां पूर्णतया केंद्रिता”
नव दिल्ली, 04 अप्रैलमासः (हि.स.)। रॉयल चैलेंजर्स बेंगलुरु इत्यस्य विकेट-रक्षक-फलन्दाजः उपकप्तानः च जितेश शर्मा एप्रिल-मासस्य पञ्चमे दिने चैन्नईसुपर ईग्सदलस्य विरुद्धं भविष्यतः प्रतियोगितायाः पूर्वं आयोजितायां पत्रकार-वार्तायां दलस्य रणनीतिं, स्वी
जितेश शर्मा


नव दिल्ली, 04 अप्रैलमासः (हि.स.)।

रॉयल चैलेंजर्स बेंगलुरु इत्यस्य विकेट-रक्षक-फलन्दाजः उपकप्तानः च जितेश शर्मा एप्रिल-मासस्य पञ्चमे दिने चैन्नईसुपर ईग्सदलस्य विरुद्धं भविष्यतः प्रतियोगितायाः पूर्वं आयोजितायां पत्रकार-वार्तायां दलस्य रणनीतिं, स्वीयां भूमिकां तथा टी२०-क्रीडायाः विविध-पक्षान् विषये विस्तरेण अवदत्।

चेन्नई-दलस्य विरुद्धं क्रीडायाः दृष्टिकोणं विषये जितेशः स्पष्टतया उक्तवान् यत् दलं कस्यापि अभिलेखस्य अथवा हाल-प्रदर्शनस्य विषये चिन्तां न करोति। सः अवदत् यद् “एतत् अत्यन्तं सरलम् अस्ति, वयं केवलं स्वीय-प्रक्रियायाम् एव ध्यानं कुर्मः। गत-सप्ताहे ते किं अकुर्वन् इति अस्मभ्यं अप्रासंगिकम्, अस्माकं सिद्धता एव प्रमुखा।”

उपकप्तानस्य उत्तरदायित्वं तथा स्वीयां फलन्दाजी-भूमिकां विषये सः अवदत् यत् “यदा कस्यचित् उत्तरदायित्वं लभ्यते तदा भाग्यवान् इव अनुभूयते। अहं दलस्य कृते अतिरिक्त-प्रयत्नं करोमि तथा विजयाय योगदानं दातुं यतामि। नेतृत्व-भूमिकायां एषा जिम्मेदारी अधिका भवति।”

चेन्नई-दलस्य विरुद्धं ३-० अभिलेखः तथा दबावः विषये सः अवदत् यत् दलं एकस्मिन् समये केवलं एकस्य एव प्रतियोगितायाः विषये चिन्तयति। सः अवदत्— “अत्र आगत्य मया ३-० अभिलेखः ज्ञातः, किन्तु वयं केवलं प्रत्येक-प्रतियोगितायां ध्यानं कुर्मः। वयं स्वीय-बलानुसारं तथा विपक्षस्य दुर्बलतां दृष्ट्वा योजना कुर्मः।”

तीव्र-गेंदकानां (फास्ट-बोलर) विरुद्धं स्वस्य क्रीडायाः विषये सः अवदत् यत् सः निरन्तरं सुधारं कर्तुं यतते। “अद्यतन-काले अहं ऑस्ट्रेलिया-देशे क्रीडितवान् तथा किञ्चित् रनान् अपि अर्जितवान्। अहं तीव्र-गेंदकानां विरुद्धं स्वं श्रेष्ठं कर्तुं प्रयत्नशीलः अस्मि। कश्चन अपि पूर्णः न भवति, सुधारः एव सफलतायाः कुंजी अस्ति।”

टी२०-रूपेण गेंदन-प्रदर्शनं विषये सः अवदत् यत् अस्मिन् प्रारूपे परिपूर्ण-खेलः न सम्भवः। “अयं प्रारूपः सीमित-अवकाशे क्रीडनीयः। समतल-पिचेषु गेंदकानां कृते अवसरः न्यूनः भवति, किन्तु १०-१५ रन-नियन्त्रणम् अत्यन्तं महत्त्वपूर्णम्, अस्माकं गेंदकाः उत्तमं कार्यं कुर्वन्ति।”

एम चिन्नास्वामी क्रीडांगण-स्थलस्य पिच् तथा पार-स्कोरः विषये सः अवदत्— “अत्र किमपि निश्चितं न भवति। यदि पावर-प्ले उत्तमः भवति तर्हि स्कोरः २४० पर्यन्तं गन्तुं शक्नोति, अन्यथा १८०-१९० अपि पर्याप्तम्।”

विश्राम-कालस्य सिद्धता विषये सः उक्तवान् यत् दलं प्रतियोगिता-सदृश-परिस्थितिषु अभ्यासं कृतवान्। “प्रथम-दिने विश्रामः कृतः, ततः उच्च-तीव्रता-अभ्यास-खेलः कृतः। वयं मानसिक-रणनीतिकतरणं कर्तुं यतामहे।”

टी२०-क्रीडायाः अनिश्चितता विषये सः अवदत् यद् “एतत् पूर्णतया दिन-विशेषे निर्भरति। कश्चन एकस्मिन् दिने उत्तमं क्रीडति, अन्यस्मिन् दिने अन्यः। अतः वयं प्रत्येक-दलं समान-मान्यतया पश्यामः।”

डिफेन्डिंग-चैम्पियन-उपाधिः विषये सः उक्तवान् यद् “अस्माकं क्रिकेट-निदेशकः उक्तवान् यत् वयं किमपि रक्षामः न, अपि तु शीर्षकस्य अनुगमनं कुर्मः। एषः नूतनः सत्रः अस्ति, प्रत्येक-प्रतियोगिता नूतनतया क्रीडनीया।

इम्पैक्ट-प्लेयर-नियमः विषये सः अवदत्— “एषः उत्तमः नियमः अस्ति। भारतीय-खेलाडिभ्यः अतिरिक्त-अवसरः लभ्यते तथा उपवेशन-स्थानस्थेभ्यः अपि क्रीडनस्य अवसरः प्राप्यते।”

अतः आरसीबी-दलम् अधुना चेन्नई-दलस्य विरुद्धं एतया सिद्धतया आत्मविश्वासेन च सह प्रतियोगितायां अवतीर्य क्रीडितुं सज्जम् अस्ति।

---------------

हिन्दुस्थान समाचार