Enter your Email Address to subscribe to our newsletters

प्रयागराजः, ०५ अप्रैलमासः (हि.स.)।इलाहाबाद-उच्च-न्यायालयेन अग्रसेन-कन्या-पीजी-कॉलेज-प्रकरणे कुलपतये स्वस्य पूर्वादेशं प्रत्याहर्तुम् अनुमतिः दत्ता। उभयोः पक्षयोः श्रवणं कृत्वा नूतनरूपेण सकारेण आदेशं कर्तुं निर्देशः अपि दत्तः। एषः आदेशः न्यायमूर्तिः सौमित्र-दयाल-सिंहः तथा न्यायमूर्तिः स्वरूपमा-चतुर्वेदी-खण्डपीठेन प्रदत्तः। विवादः प्रबन्ध-समितेः तथा शिक्षकैः कर्मचरिभिः सह सम्बद्धः अस्ति। कुलपतिना गत २७ फरवरी-मासे निर्गतः आदेशः प्रबन्ध-समित्या आहूतः आसीत्। श्रवणकाले उक्तं यत् पूर्वादेशः शीघ्रतया कृतः, पक्षकाराणां पूर्ण-अवसरः न दत्तः। न्यायालयेन प्रबन्ध-समितेः द्वि-सप्ताह-अन्तरे स्व-पक्षं प्रस्तोतुं निर्देशः दत्तः। प्रतिपक्षेभ्यः अपि प्रत्युत्तरार्थं द्वि-सप्ताह-कालः निर्दिष्टः। अनन्तरं कुलपतिना श्रवणं कृत्वा स्पष्टम् सकारणम् आदेशः कर्तव्यः इति न्यायालयेन उक्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता