पवन-खेड़ा-महोदयस्य विरुद्धं ४८ घण्टान्तराले फौजदारी-तथा-दीवानी-मामलाः अभिलेखिताः भविष्यन्ति : मुख्यमन्त्री
गुवाहाटीनगरम्, ०५ अप्रैलमास: (हि.स.)। असमप्रदेशे प्रवर्तमान-विधानसभा-निर्वाचनानां मध्ये रविवासरे कांग्रेस-पक्षस्य राष्ट्रीय-प्रवक्ता पवन-खेड़ा-महोदयः मुख्यमन्त्री डॉ.हिमन्त-बिस्व-शर्मा-महोदयम् तथा तस्य भार्यां प्रति गम्भीरान् आरोपान् अकरोत्। एतेषां
असमः मुख्यमंत्री व उनका एक्स पोस्ट एवं पवन खेड़ा


गुवाहाटीनगरम्, ०५ अप्रैलमास: (हि.स.)। असमप्रदेशे प्रवर्तमान-विधानसभा-निर्वाचनानां मध्ये रविवासरे कांग्रेस-पक्षस्य राष्ट्रीय-प्रवक्ता पवन-खेड़ा-महोदयः मुख्यमन्त्री डॉ.हिमन्त-बिस्व-शर्मा-महोदयम् तथा तस्य भार्यां प्रति गम्भीरान् आरोपान् अकरोत्। एतेषां आरोपाणां विषये मुख्यमन्त्री डॉ.शर्मा-महोदयः सोशल-मीडिया “एक्स” माध्यमेन स्व-प्रतिक्रियां व्यक्तीकृत्य तान् सर्वथा निराकृतवान्।

विदितं यत् मुख्यमन्त्रिणः भार्या रिन्की-भुइयां-शर्मा-महोदया बहूनि पास्पोर्टानि धारयति इति आरोपः कृतः, यत् कृत्रिम-बुद्धिमत्ता (ए.आई.) माध्यमेन निर्मितम् इति अपि उक्तम्।

मुख्यमन्त्री स्वसन्देशे उक्तवान् यत् पवन-खेड़ा-महोदयस्य रविवासरीयं पत्रकार-सम्मेलनं कांग्रेस-पक्षस्य आन्तरिके गाढ-असन्तोषं चिन्तां च प्रदर्शयति। यथा-यथा असम-राज्यम् ऐतिहासिक-जनादेशस्य दिशि निर्णायकतया अग्रे गच्छति, तथा एतादृशाः निराशाजनकाः निराधाराश्च आक्रमणाः तेषां दुर्बलमानं जनाधारम् एव प्रकाशयन्ति।

अहं तेन आरोपितान् सर्वान् आरोपान् पूर्णतया निराकरोमि। एते दुष्ट-भावनया प्रेरिताः, कल्पिताः तथा राजनैतिक-प्रेरिताः मिथ्यावादाः सन्ति, येषां उद्देश्यः असम-जनतां भ्रमयितुम् अस्ति।

मुख्यमन्त्री उक्तवान् यत् अहं मम भार्या च आगामि ४८ होरान्तराले पवन-खेड़ा-महोदयस्य विरुद्धं आपराधिक-तथा-दीवानी-मानहानि-विषयान् प्रेषयिष्यावः। तस्य एतेषां अयुक्त-अपमानजनक-वक्तव्यनां कृते सः पूर्णतया उत्तरदायी भविष्यति।

मम न्यायपालिकायां पूर्णः विश्वासः अस्ति। यदा न्यायालये सत्यं सिद्धं भविष्यति, तदा पवन-खेड़ा-महोदयः स्वकृत्यानां परिणामं भुक्त्वा, विधिः स्वकार्यं करिष्यति।

असम-जनता एतादृशेन दुष्प्रचारेण न भ्रमिता भविष्यति। वयं पूर्णतया एकाग्राः, दृढनिश्चययुक्ताश्च सन्तः जनतायाः १०० अधिक-आसनानां निर्णायक-जनादेशं प्राप्तुं आश्वस्ताः स्मः।

हिन्दुस्थान समाचार / अंशु गुप्ता