Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 5 अप्रैलमासः (हि.स.)।
बस्तर जिला इति प्रदेशे क्रीडायाः स्वास्थ्यस्य च प्रोत्साहनार्थं २२ मार्च दिने “बस्तरहेरिटेजमैराथन२०२६” इति स्पर्धाया सफलतया आयोजनं कृतम्। एषा धावनस्पर्धा लालबाग मैदान आरभ्य चित्रकोट जलप्रपात पर्यन्तम् आयोजिताभूत्, यस्मिन् देशविदेशेभ्यः आगताः प्रतिभागिनः उत्साहपूर्वकं सहभागित्वं कृतवन्तः।
स्पर्धायाः अन्तर्गतं विविधेषु वर्गेषु धावनम् आयोजितम्, यथा— ४२ कि.मी. (स्त्रीपुरुषयोः तथा ओपनवर्गः), २१ कि.मी. (स्त्रीपुरुषयोः तथा ओपनवर्गः), १० कि.मी. (स्त्रीपुरुषयोः तथा ओपनवर्गः), तथा ५ कि.मी. (उपकनिष्ठ, कनिष्ठ, वरिष्ठ स्त्रीपुरुषवर्गाः) इति।
सर्वेषु वर्गेषु विजेतृभ्यः भारतीयविदेशीयप्रतिभागिभ्यः पुरस्कारराशेः वितरणं कृतम्। विदेशीयप्रतिभागिनां देयपुरस्कारराशेः भुगतानं तेषां सम्मत्यनुसारं २५ मार्च २०२६ दिने कृतम्, यस्मिन् आयकरविधानस्य अनुसारं आवश्यककर्तनानि कृतानि।
तथैव भारतीयविजेतृभ्यः अवशिष्टपुरस्कारराशेः भुगतानं ४ अप्रैल २०२६ दिने तेषां वित्तकोषेषु कृतम्, यत्र अपि आयकरविधानानुसारं आवश्यककटौतयः कृताः। कटिताः सर्वे करराशयः विधिवत् शासनकोषे निक्षिप्ताः।
अस्यां स्पर्धायां आहत्य १३० प्रतिभागिनः विजेतारः घोषिताः, येषु १९ विदेशीयाः आसन्, येभ्यः सर्वेभ्यः पूर्णराशिः प्रदत्ता। भारतीयेषु १११ विजेतृषु १०५ प्रतिभागिभ्यः खातासंख्या प्राप्त्वा भुगतानं कृतम्, अवशिष्टेषां ६ प्रतिभागिनां कोषसंख्या प्राप्त्यर्थं प्रक्रिया प्रचलति।
---------------
हिन्दुस्थान समाचार