मुख्यमंत्री याेगी भारतेन्दु नाट्य अकादम्याः स्वर्ण जयंती समारोहस्य अकरोच्छुभारम्भम्
रामायण महाभारतमस्माकं सांस्कृतिक प्रवाहस्य अंशः : योगी आदित्यनाथः लखनऊ,05 अप्रैल-मासः(हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः रविवासरे भारतेन्दु-नाट्य-अकादम्याः स्थापना-५०-वर्ष-पूर्णतायाः निमित्तं आयोजितस्य स्वर्ण-जयंती-समारोहस्य शु
रंगमंच पुस्तक का विमोचन करते मुख्यमंत्री योगी आदित्यनाथ व संस्कृति मंत्री जयवीर सिंह


रामायण महाभारतमस्माकं सांस्कृतिक प्रवाहस्य अंशः : योगी आदित्यनाथः

लखनऊ,05 अप्रैल-मासः(हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः रविवासरे भारतेन्दु-नाट्य-अकादम्याः स्थापना-५०-वर्ष-पूर्णतायाः निमित्तं आयोजितस्य स्वर्ण-जयंती-समारोहस्य शुभारम्भं कृतवान्।

अस्मिन् अवसरे मुख्यमन्त्री अकादम्याः सम्पूर्ण-भवनस्य द्वयोः प्रेक्षागृहयोः च जीर्णोद्धार-कार्यस्य लोकार्पणं कृतवान्। अपि च कलाविदः पूर्व-छात्रांश्च सम्मानितवान् तथा “रंगमंच” इति पुस्तकस्य विमोचनं कृतवान्। तेन बंकिमचन्द्र-चट्टोपाध्याय-रचितस्य “आनन्दमठ” उपन्यासस्य नाट्य-प्रस्तुतिः अपि अवलोकिता।

अवसरे वदन् मुख्यमन्त्री उक्तवान् यत् रंगमञ्चः समाजस्य दर्पणः भवति। सः समाजस्य दिशां निर्धारयति। यत्र भावनाः शब्दरूपेण परिवर्तन्ते, ते शब्दाः अभिनय-रूपं गृह्णन्ति, सः एव अभिनयः जनचेतना भूत्वा समाजं प्रति दिशा निर्दिशति।

योगी-आदित्यनाथः उक्तवान् यत् रामायणं महाभारतं च अस्माकं सांस्कृतिक-प्रवाहस्य अंशः अस्ति, प्रत्येकः भारतीय-परिवारः एतानि स्वजीवनस्य अङ्गत्वेन स्वीकरोति। भारतेन्दु-हरिश्चन्द्रः नाटकानां माध्यमेन सांस्कृतिक-राष्ट्रवादस्य भावनां वर्धितवान्, भाषायाः कृते अपि कार्यं कृतवान्। सत्यं वदितुं कर्तुं च धैर्यं तेन नाट्य-माध्यमेन प्रदर्शितम्। भारतस्य सनातन-संस्कृतेः रक्षणाय, मातृभाषायाः, हिन्दी-भाषायाः, खड़ी-बोली-भाषायाः च तस्य योगदानम् अतुलनीयम्।

सः अपि उक्तवान् यत् पूर्वं मत-संग्रह-हिताय महाराज-सुहेलदेवः, महाराज-बीजली-पासी तथा महारानी-लक्ष्मीबाई इत्येषां नामानि अपि न उच्चार्यन्ते स्म। वयं स्वीयान् नायकान् सम्मानयितुं पराङ्मुखाः आस्म। अतः कारणात् अस्माकं संस्थासु पूर्वं दुष्टजनाः नायकत्वेन प्रदर्शिताः आसन्। पूर्व-सरकाराः दुर्बलाः आसन्। सालार-मसूदः एकः दुष्टः आसीत्, महाराज-सुहेलदेवेन तु सः पराजितः। सहस्र-वर्षानन्तरं वयं तस्य भव्य-स्मारकं निर्मातुं शक्ताः अभवाम। संस्कृत्याः उपरि आक्रमणं न सहनीयम्; ये भारतस्य संस्कृतिं नष्टुं प्रयतन्ते, ते सम्मानं न अर्हन्ति।

मुख्यमन्त्री उक्तवान् यत् गायन-वादन-नृत्य-क्षेत्रेषु उत्तरप्रदेशः अत्यन्तं समृद्धः अस्ति। लोक-कलानां संवर्धनं करणीयम्। महाराज-सुहेलदेवः, महाराज-बीजली-पासी, महारानी-लक्ष्मीबाई इत्यादीनां वीराणां वीराङ्गनानां च विषये लघु-नाटकानि निर्मीयन्ताम्। विद्यालयेषु बालकानां पुरतः राष्ट्रभक्ति-सम्बद्ध-नाटकानां मंचनं क्रियताम्। अस्य कृते संस्कृति-विभागः अग्रे आगच्छतु।

पूर्वं भारतेन्दु-नाट्य-अकादम्याः अध्यक्षः डॉ. रतिशंकर-त्रिपाठी मुख्यमन्त्रीणं अंगवस्त्रेण स्मृति-चिह्नेन च सत्कृतवान्।

मुख्यमन्त्रिणः कराभ्यां किरण-बिसारिया (लखीमपुर-खीरी), पद्मश्री रामगोपाल-बजाज (नवी-दिल्ली), पद्मश्री डॉ. अनिल-रस्तोगी (लखनऊ), प्रो. अजय-मलकानी (रांची), रविशंकर-खरे (गोरखपुर), चित्रा-मोहन (प्रयागराज), मञ्जु-ब्रजनन्दन-शर्मा (सहारनपुर), मुनीश-सप्पल (मुंबई), डॉ. देवेंद्र-कुमार-त्रिपाठी (प्रयागराज), डॉ. अजीत-सैगल (वाराणसी), राकेश-निगम (लखनऊ), प्रमोद-सिंह-राणा (आगरा), आलोक-पाण्डेय (शाहजहाँपुर), कुशल-दुबे (जौनपुर), राकेश-पाण्डेय (भदोही) इत्येते सम्मानिताः।

अस्मिन् अवसरे संस्कृति-मन्त्री जयवीर-सिंहः, लखनऊ-नगरस्य महापौरा सुषमा-खर्कवाल, भातखण्डे-विश्वविद्यालयस्य कुलपतिः प्रो. माण्डवी-सिंह, भाजपा-राज्यसभा-सदस्यः डॉ. दिनेश-शर्मा, विधायकः योगेश-शुक्लः च प्रमुखतया उपस्थिताः आसन्।

हिन्दुस्थान समाचार