मुख्यमंत्री सायः अद्य जशपुर जिल्लायाः भ्रमणे
रायपुरम् 05 अप्रैलमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायोऽद्य रविवासरे स्वस्य गृहजिल्लायां जशपुरे प्रवासं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य अपराह्णे एकवादने रायपुरात् कुनकुरीनगरं प्रति प्रस्थितः भविष्यति। ततः सः अपराह्णे त
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 05 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेव सायोऽद्य रविवासरे स्वस्य गृहजिल्लायां जशपुरे प्रवासं करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य अपराह्णे एकवादने रायपुरात् कुनकुरीनगरं प्रति प्रस्थितः भविष्यति। ततः सः अपराह्णे त्रिवादने सालिया टोली क्रीडाङ्गणे आयोजिते प्रभु श्रीरामकथा रसपानकार्यक्रमे सहभागिता करिष्यति।

तदनन्तरं मुख्यमन्त्री सायः चतुर्वादनार्धे कुनकुरीनगरात् रायपुरं प्रति प्रत्यागमनाय प्रस्थितः भविष्यति तथा सायं षड्वादनपर्यन्तं रायपुरं प्रत्यागमिष्यति।

हिन्दुस्थान समाचार