Enter your Email Address to subscribe to our newsletters

बंगाईग्रामः (असमप्रदेशः), ०५ अप्रैलमासः (हि.स.)। असम-प्रदेशस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा रविवासरे अभयापुरी-नगरे आयोज्यमानायां निर्वाचन-सभायां सम्बोधितवान्। तेन उक्तं यत् अस्मिन् निर्वाचने प्रर्दशनीयं यत् असमिया-जनाः अपि मतदानं कर्तुं जानन्ति। केचन जनाः मन्यन्ते यत् केवलं विशेषः समुदायः एव सङ्घटित-रूपेण मतदानं करोति, किन्तु अस्मिन् काले अन्येऽपि स्वबलं प्रर्दशयिष्यति।
भाजपायाः अभ्यर्थिनः भूपेन-रायस्य समर्थनाय आयोजितायां शोभायात्रायां मुख्यमन्त्रीजनैः निर्णायक-मतदानं कर्तुं आह्वानं कृतवान्। तेन उक्तं यत् निर्वाचनस्य माध्यमेन जनता स्पष्ट-संदेशं प्राप्नुयात्।
मुख्यमन्त्री हि अभयापुरी-नगरे विकासाय द्विशत-कोटि-रूप्यकाणां व्ययाय प्रतिज्ञां कृतवान्। तेन ‘आत्मनिर्भर-असम’-अभियानस्य माध्यमेन यूनः आत्मनिर्भरं कर्तुं स्व-सर्वकारस्य प्रतिबद्धता पुनः उद्घोषिता।
सभायां जनसमागमः महती दृष्टा। अस्मिन् अवसरे रोचकः क्षणः अपि दृष्टः, यदा एकः युवकः स्वस्य उरसोपरि मुख्यमन्त्रिणः छायाचित्रं निर्मितवान्। मुख्यमन्त्री तेन सह संवादं कृत्वा तस्मै स्नेहं व्यक्तवान् तथा भविष्ये स्वगृहे आगमनाय आमन्त्रणं अपि दत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता