Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 5 अप्रैलमासः (हि.स.)।
असम-राज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा रविवासरे ईस्टर-पर्वणः पावन-हर्षोल्लासपूर्ण-अवसरे राज्यस्य ईसाई-समुदायस्य जनानां प्रति हार्दिकाः शुभाशयाः प्रेषितवान्।
स्वस्य सामाजिक-माध्यम-सन्देशे मुख्यमन्त्री अस्य दिनस्य पवित्रतां महत्त्वं च निर्दिश्य अवदत् यत् अयं पर्व जनानां विश्वासाय नूतनां शक्तिं ददातु तथा प्रत्येकस्य हृदये आशायाः नूतनं प्रकाशं प्रज्वालयतु।
तेन उक्तं यत् ईस्टर-पर्वसम्बद्धाः त्यागाः महान् आदर्शाश्च जनान् अधिकं मानवीय-स्वभावयुक्तान् कर्तुं प्रेरयन्तु तथा समाजे दया-शान्ति-सौहार्दं धारयितुं मार्गदर्शनं कुर्वन्तु।
मुख्यमन्त्री कामनाम् अकरोत् यत् अस्य पर्वणः भावना सर्वेषां जीवनं प्रति एकता-भ्रातृत्वं च अधिकं सुदृढं करोतु।
हिन्दुस्थान समाचार