भूमि विवादे शक्तः उपमुख्यमंत्री, विजय सिन्हा अवदत्- 40 लक्षम् आवेदनानां समाधानं करिष्यति, दोषिभ्यः न क्षमादानम्
भूमिमाफियानां विरुद्धं कठोरः प्रहारः, बिहारं अधुना विवादेभ्यः मुक्तं करिष्यामः। दोषकर्तारः न मोक्ष्यन्ते, प्रत्येकस्य शिकायतायाः निवारणं भविष्यति। पटना, ०५ अप्रैल। उपमुख्यमन्त्री विजय कुमार सिन्हा उक्तवान् यत् सरकारः जनतानां समस्यासमाधानाय पूर्णत
उप मुख्यमंत्री व राजस्व एवं भूमि सुधार मंत्री विजय कुमार सिन्हा


भूमिमाफियानां विरुद्धं कठोरः प्रहारः, बिहारं अधुना विवादेभ्यः मुक्तं करिष्यामः।

दोषकर्तारः न मोक्ष्यन्ते, प्रत्येकस्य शिकायतायाः निवारणं भविष्यति।

पटना, ०५ अप्रैल। उपमुख्यमन्त्री विजय कुमार सिन्हा उक्तवान् यत् सरकारः जनतानां समस्यासमाधानाय पूर्णतया प्रतिबद्धा अस्ति।

सः स्पष्टतया उक्तवान् यत् भूमिसम्बद्धेषु विषयेषु यदि कुत्रचित् काचित् त्रुटिः अभवत्, तस्याः सुधारपरिमार्जनार्थं सरकारेण समयः प्रदत्तः अस्ति तथा अधुना पर्यन्तं प्रायः चत्वारिंशल्लक्षाणि आवेदनानि प्राप्तानि सन्ति। भूमिविवादकारणेन सामान्यजनानां याः क्लेशाः भवन्ति तेषां निवारणं सरकारस्य प्रमुखप्राथमिकता अस्ति। अस्य कृते कठोराणि उपायानि क्रियन्ते। सहैव अनियमकर्तॄणां विरुद्धं कठोरकार्यवाही अपि क्रियिष्यते।

उपमुख्यमन्त्री सह राजस्वभूमिसुधारविभागस्य मन्त्री विजयकुमारसिन्हा उक्तवान् यत् वयं चत्वारिंशल्लक्षाणाम् आवेदनानां समाधानाय संकल्पिताः स्मः। भवन्तः आगच्छन्तु, यदि काचित् त्रुटिः जाता अपि अस्ति, तर्हि मिलित्वा तस्याः सुधारः समाधानं च क्रियते। उपमुख्यमन्त्री जनान् प्रति आह्वानं कृतवान् यत् ते भ्रमप्रचारकानां वचनेषु न पतन्तु तथा स्वमनसः भयम् अपाकरोतु।

सः उक्तवान् यत् वर्षाणां यावत् जनतायाः या पीडा उह्यमाना आसीत् सा अधुना समाप्ता भविष्यति तथा भूमिविवादनाम्ना बिहारं पुनः रक्तरंजितं कर्तुं न अनुमन्यते। सः उक्तवान् यत् अद्यापि सप्ततिपञ्चसप्ततिशतांशपर्यन्ता भूमिः विवादरहिता अस्ति, किन्तु केचन जनाः तकनीकीकौशलस्य दुरुपयोगेन अनियमं कृतवन्तः।

सारणजिलस्य उदाहरणं दत्त्वा सः आरोपितवान् यत् केचन जनाः रजिस्टर-२ नामक अभिलेखे स्याहीं क्षिप्त्वा लेखान् अस्पष्टान् कृतवन्तः तथा अन्येषां नाम्ना म्यूटेशनं कारितवन्तः। इत्थं न केवलं, अपि तु दस्तावेजपत्राणि अपि छित्त्वा अनियमः कृतः।

उपमुख्यमन्त्री संचेतनां दत्त्वा उक्तवान् यत् सरकारस्य समीपे पूर्णं तन्त्रं विद्यमानम् अस्ति तथा एतेषां विषयाणां परीक्षणं कृत्वा दोषिणः चिन्हिताः भविष्यन्ति। ये जनाः एतत् पापं कृतवन्तः, तान् अहं न मोक्ष्यामि, अन्तिमकालपर्यन्तं तेषां अनुगमनं करिष्यामि। सः अपि उक्तवान् यत् बिहारस्य छविं दूषयन्तः जनाः विरुद्धं कठोरकार्यवाही भविष्यति तथा अस्य संघर्षस्य समाधानपर्यन्तं नेतुं जनसहयोगः अत्यावश्यकः अस्ति।

हिन्दुस्थान समाचार