Enter your Email Address to subscribe to our newsletters

नवदिली, ०५ अप्रैलमासः (हि.स.)।इन्दिरा-गान्धी-राष्ट्रीय-कला-केन्द्रस्य अध्यक्षः रामबहादुर-रायः अवदत् यत् ‘अयोध्या-पर्व’ केवलम् आयोजनं न, अपितु समाजस्य जागरणस्य आधारम् अस्ति। एतत् वक्तव्यं तेन दिल्ली-स्थिते आईजीएनसीए तथा अयोध्या-न्यासस्य सहकार्ये आयोजितस्य त्रिदिवसीयम् ‘अयोध्या-पर्व’ समापनावसरे उक्तम्।
सः अवदत् यत् अस्मिन् पर्वणि निरन्तरता नवीनता च अस्ति, एषा एव अस्य विशेषता।वर्तमान-अयोध्याया: प्रेरणया समाजे जागरणं जातम्, यत् भविष्य-अयोध्याया: आधारं भविष्यति।
श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासस्य महामन्त्री चम्पत-रायः अवदत् यत् रामजन्मभूमि-आन्दोलनं समाज-जागरणस्य साधनम् आसीत्, मन्दिर-निर्माणं तस्य फलम्। सः अवदत् यत् ८४-कोसी-परिक्रमा तथा अयोध्याया: सांस्कृतिक-विस्तारस्य प्रस्तुतीकरणं अयोध्या-पर्वणः माध्यमेन कृतम्। ‘भविष्यस्य अयोध्या—शासनं समाजश्च’ इति विषयक-विमर्शे अयोध्याया: भावि-स्वरूपे चर्चा अभवत्। वक्तृभिः अयोध्यां सांस्कृतिक-आध्यात्मिक-आदर्श-नगररूपेण विकसितुम् आवश्यकता निर्दिष्टा। सांस्कृतिक-कार्यक्रमे ‘श्रीराम-विजय’ इति नाट्य-प्रस्तुतिः दर्शकान् भावविभोरान् अकरोत्। त्रिदिवसीये अस्मिन् ‘अयोध्या-पर्वणि’ देशस्य विभिन्न-भागेभ्यः आगताः विद्वांसः कलाकाराः च उत्साहेन सहभागिनः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता